________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
परिच्छेदः
प्रथमः॥
अष्टसहस्री तुल्यौ विधिनिषेधाविति मन्तव्यम् , अधिकमेतत्तत्वं नयामृततरङ्गिण्यां प्रतिपादितमस्माभिरिति तत एवाधिगन्तव्यम् । विवरणम्॥४॥ नियोगस्यैवेत्याद्यारभ्य भावनावाक्यार्थत्वसाधनोपक्रमो भाट्टस्य, +शब्दात्मेति, शब्दात्मभावनां शब्दनिष्ठप्रवर्तना
लक्षणाम् , +अन्याम् आख्यातसामान्यार्थभिन्नाम्, इयं तु पचतीत्यादौ दृश्यमाना भावना तु, +अन्यैव ततः, +सर्वाथों ॥५४॥
आख्यातसामान्यशक्या, अत एव सर्वाख्यातेषु वर्तते वाचकत्वेन, शब्देन हीति, तथा च फलान्वितधात्वान्वितार्थभावनाजनकत्वं शब्दभावनात्वमित्यर्थः, सन्मात्रमिति, अत्र स्थाने, अन्यत्र “सम्बन्धिभेदात् सत्तैव, भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां, सर्वे शब्दा व्यवस्थिताः॥१॥” इति कारिकास्ति, तदर्थो गवादिशब्दानां ब्रह्मसत्तावाचित्वम् , गोत्वादेस्तु प्रयोगोपाधितया लाभ इति । एवं च सर्वशब्दाविशेष इति प्रकृतकारिकया कारकासम्पृक्तस्य शुद्धस्य भावस्य धात्वर्थत्वं प्रतिज्ञायते, तामिति, तां सत्ताम् , महानात्मा शुद्धं ब्रह्म, गयां त्वतलादयो भावप्रत्यया आहुरिति, तेषां खलु सत्तासामान्यमर्थः, घटपदाद्युत्तरत्वादीनां च प्रकृतिजन्यबोधप्रकारो धमों घटत्वादिः, न चैवं घटत्वत्वस्यापि वाच्यत्वापत्ती गौरवम् , तत्तव्यक्तिविशिष्टब्रह्मसत्ताया एव घटत्वघटत्वत्वादिरूपत्वेनात्र लघुगुरुविचारानवकाशात् , अत एव वार्तिककारस्तस्य भावस्त्वतलाविति सूत्रे यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलावित्युक्तम् , यस्य गुणस्य विशेषणस्य भावादाश्रयत्वाद् द्रव्ये विशेष शब्दनिवेशः शब्दप्रवृत्तिस्तस्मिन् वाच्ये त्वतलाविति तदर्थः, तथा च रूपादिशब्देभ्यो जातौ
* पत्र २३ पृ. १ पं. १२। + पत्र २३ पृ. २ पं. १। पत्र २३ पृ. २ पं. २। पत्र २३ पृ. २ पं. ४ पत्र २३ प. २ पं. ५। पत्र २३ ५.२ ५.६।
KASALMAALC+CMC-NCR
CCC
॥५४॥
For Private And Personal Use Only