SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्री विवरणम् ।। ॥ ५३ ॥ www.kobatirth.org अधिकं मत्कृतानेकान्त व्यवस्थायाम्, 'परव्यावृत्तिद्वारेण वेत्यादि,' ननु पुरोवर्त्तिनीष्टतावच्छेदकप्रकारकज्ञानत्वेनैव लाघवात् प्रवर्त्तकता नत्वनिष्टतावच्छेदकाभावप्रकारकज्ञानत्वेन गौरवादिति विधेः प्राधान्ये विनिगमकमस्तीति चेत्, न, अतद्व्यावृत्तिप्रकारकज्ञानादपि बहूनां प्रवृत्तेरतद्व्यावृत्तिविध्यन्यतरनिष्ठप्रकारताविशेषस्यैव प्रवर्त्तकतावच्छेदकत्वौचित्यात्, अस्तु वा द्रव्याद्याकारताविलक्षणरजताद्याकारताशा लिज्ञानत्वेन रजताद्याकारप्रवृत्तौ हेतुत्वम्, रजताद्याकारतैव चारजतभिन्नाद्याकारता, तत्तदाकारतात्वभेदाच्च व्यवहारभेदः, वस्तुतो विधिज्ञानस्य प्रवर्त्तकत्वेऽपि निष्कम्पप्रवृत्त्यर्थमतद्व्यावृत्तिविषयत्वधौव्यम्, तत्संसर्गतयैव निश्चयत्वसम्पत्तेरिति नैकतरपक्षपातो युक्त इति दिक् । "विधात्रेवेति एतेन “आहुर्विधातृ प्रत्यक्षं न निषेद्ध विपश्चितः । नैकत्वे आगमस्तेन, प्रत्यक्षेण प्रबाध्यते || १ ||" इति मण्डनमिश्रोक्तमपास्तम्, वस्तुनो विधिनिषेधोभयांशसंवलितत्वेन विध्वंश इव निषेधांशेऽपि प्रत्यक्षव्यापारानुपरमात्। अथ निर्विकल्पकरूपमेव प्रत्यक्षप्रमाणं स्वीक्रियते न सविकल्पकम्, तस्य जात्यादियोजनात्मकत्वेन स्मृतिप्रायत्वात् तच्च भावस्यैव भवति नाभावस्य तस्य सविकल्पकैकवेद्यत्व स्वीकारादिति विधात्रेव प्रत्यक्ष मिति वचनं नाचतुरस्रमिति चेत्, न अभावः सविकल्पकैकवेद्य इति सिद्धान्तस्य नियुक्तिकत्वात् इन्द्रियसन्निकर्षबलाद्भावस्येवाभावस्यापि निर्विकल्पकसिद्धेः, इन्द्रियसम्बद्ध विशेषणतायाः प्रतियोगिविशेषिताभावप्रत्यक्षत्वमेव कार्यतावच्छेदकमित्यत्र मानाभावात्, अन्यथा सप्रकारकप्रत्यक्षत्वावच्छिन्न एव लौकिकप्रत्यासत्तिसम्बन्धेनेन्द्रियत्वेन हेतुताया युक्तत्वाद्-भावानिर्विकल्पकस्याप्युच्छेदापत्तेः, नेत्याकारकप्रत्यक्षवारणाय प्रथमहेतुताया एव युक्तत्वमिति चेत्, न न नेत्या * पत्र २३ पृ. १ पं. ८ । For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir परिच्छेदः प्रथमः | ॥ ५३ ॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy