SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir विषयकत्वेन नाश्यनाशकभावात् , किं चानिर्वचनीयानां घटादिपदार्थानामभ्युपगमापेक्षया सत्यतदुभ्युपगम एव श्रेयान् , अन्यथा जाग्रत्स्वमयोविंशेषार्थमनिर्वचनीयविशेषस्यापि कल्पनापत्तेः प्रतिनियतकार्यकारणभावोच्छेदप्रसङ्गात् , किश्च प्रतिभासाद्वैते बन्धमोक्षव्यवस्थैव दुर्घटा, निर्बीजकल्पनामूलानामज्ञानतत्कार्याणामसत्त्वात् , सच्चे वा तनिवृत्तेः कर्तुमशक्यत्वात् , तन्निवृत्तेरसत्त्वे मुक्तेः खरविषाणप्रख्यत्वापत्तेः, सत्यत्वे द्वितीयसत्त्वेनाद्वैतव्याघातापत्तेः, अनिर्वचनीयत्वे प्रपञ्चानुगमापत्तेः, सत्यासत्या निर्वचनीयातिरिक्तप्रकाराश्रयणे च तस्य जात्यन्तरत्वे स्याद्वादाश्रयणापत्तेः, तेनैव च सर्वनिवाहेऽद्वैतकुसृष्टिकष्टस्यानादरणीहै यत्वात् , न च ब्रह्माधिकरणस्वरूपत्वादज्ञाननिवृत्तेरदोषः, तस्य शाश्वतत्वेन संसारदशायां मुक्त्यापत्तेः, न तत्कालोपलक्षिताहात्मनोऽपि परिणामित्वं विना मुक्तत्वं युक्तम् , उपलक्ष्यताया अपि कूटस्थेऽसम्भवादिति यत्किश्चिदेतत् , तदिदमभिप्रेत्याहुःसर्वतन्त्रसिद्धं मुक्तिस्वरूपमनूद्य श्रीहरिभद्राचार्या:" परिणामिन्यात्मनि सति, तत्तद्ध्वनिवाच्यमेतदखिलं स्यात् । अर्थान्तरे च तत्वेऽविद्यादौ वस्तु सत्येव ॥ १॥ पुरुषाद्वैतं तु यदा, भवति विशिष्टमथ बोधमानं वा । भवभवविगमविभेद-स्तदा कथं युज्यते मुख्यः ॥२॥ अग्निजलभूमयो यत्, परितापकरा भवेऽनुभवसिद्धाः । रागादयश्च रौद्रा असत्प्रवृत्त्यास्पदं लोके ॥३॥ परिकल्पिता यदि ततो, न सन्ति तत्त्वेन कथममी स्युरिति । परिकल्पिते च तत्त्वे, भवभवविगमौ कथं युक्तौ ॥ ४॥ परिकल्पनापि चैषा, हन्त विकल्पात्मिका न सम्भवति । तन्मात्र एव तत्वे यदि वा भावो न जात्वस्याः ॥५॥" इति * पत्र २३ पृ. १ पं. ७ । SASACARRC For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy