________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम्॥ ॥५२॥
परिच्छेदः प्रथमः॥
नाधिकरणत्वात् भानस्वरूपवदिति, परमब्रह्मत्वेनेति तथा चोपनिषद्वाक्यादेब्रह्मत्वेन प्रतिभासादभेदो वाक्यत्वादिना च भेद इति रूपभेदान्न विरोध इत्यर्थः। *सकृत्तत्संवेद्यतान्यथानुपपत्तेरिति, प्रतिपादकादिभ्यो भिन्नत्व एव ह्युपनिषद्वाक्यस्य सकृदेकदा तेषां श्रोत्रसम्बन्धेन तदाकारवृत्या संवेद्यता स्यात् , अन्यथा तु साक्षिभास्यत्वेन साधारण्येन प्रतिभासो न स्यादित्यर्थः । प्रितिभास्यस्यापि सुप्रसिद्धत्वादिति, ननु प्रतिभास्यस्य सुप्रसिद्धतया न प्रतिभासाद्वैतबाधा प्रतिभास्यस्य प्रतिभासकर्मतयैव स्वाभिकपदार्थवन्मिथ्यात्वेन प्रतिभासमात्रस्यैव सत्यत्वसिद्धेः, नहि मिथ्याहिः सुप्रसिद्धोऽपि सत्यरज्जु| रूपाधिष्ठानं बाधत इति, दृश्यप्रतिभासोऽपि च यावदविद्यमेव, यदा च विधिवदधीतवेदान्तस्यासम्भावनाविपरीतभावनाख्यचित्तदोषरहितस्याध्यारोपापवादन्यायेनाचार्योपदेशसमनन्तरमेव तत्त्वमस्यादिवाक्यजन्याऽहं शुद्धं ब्रह्माऽस्मीत्यखण्डाकारा साक्षात्काररूपान्तःकरणवृत्तिरुदेति, शब्दजन्यज्ञानस्यापि विषयापरोक्षत्वेनापरोक्षत्वसम्भवात् , दशमस्त्वमसीत्यादिवाक्यजन्यज्ञानवत् , ज्ञानस्य परोक्षापरोक्षत्वयोः करणभेदस्यानियामकत्वात् , एकस्मादेव मनसःसुखादिविषयापरोक्षज्ञानस्यातीतार्थस्मृतेः परोक्षायाश्चोत्पादात् , तदा सा वृत्तिः प्रत्यक्चैतन्यव्याप्ता मूलाज्ञानं बाधित्वा दग्धेन्धनानलवत् स्वयमुपशाम्यति, तदैव तत्प्रतिविम्बितं चैतन्यमपि, केवलब्रह्ममात्रमवशिष्यते, दर्पणाभावे मुखस्येवोपाधिविलये उपहितस्य स्वरूपमात्रावस्थानस्वभावत्वादिति सिद्धं प्रतिभासाद्वैतेन व्यवहारदशायामनिर्वचनीयप्रतिभास्यदृष्टावपि परमार्थदशायां तददृष्टेरिति चेत् , न, बाह्यार्थस्यापारमार्थिकत्वे तत्त्वमस्यादिवाक्यजन्यज्ञानविषयताया अपि ब्रह्मण्यसत्त्वेन तद्गताज्ञाननिवृत्त्ययोगात् , ज्ञानाज्ञानयोः समानाश्रय
पत्र १८ पृ. २ पं. ११ । * पत्र १९ पृ. १ पं. १० । + पत्र १९ पृ. १ पं. ११ ।
का॥५२॥
For Private And Personal Use Only