________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ॥
॥ ३४ ॥
www.kobatirth.org
प्रत्ययोपमा भूत् । न हि स परापेक्षो न भवति, परापेक्षामन्तरेण कचित्कदाचिदप्यभावाद् द्वित्वादिप्रत्ययवद्दूरत्वादिप्रत्ययवद्वा । द्विविधो हि वस्तुधर्मः परापेक्षः परानपेक्षश्च वर्णादिवत् स्थौल्यादिवच्च । ननु च सादृश्ये सामान्ये स एवायं गौरिति प्रत्ययः कथं शवलं दृष्ट्वा धवलं पश्यतो घटेतेति चेत्, एकत्वोपचारादिति ब्रूमः । द्विविधं ह्येकत्वं मुख्यमुपचरितं चेति । मुख्यमात्मादिद्रव्ये । सादृश्ये तूपचरितमिति । मुख्ये तु तत्रैकत्वे तेन समानोयमिति प्रत्ययः कथमुपपद्येत ? तयोरेकसामान्ययोगादिति चेत्, न, सामान्यवन्तावेतावितिप्रत्ययप्रसङ्गात् । अभेदोपचारे तु सामान्यतद्वतोः सामान्यमिति प्रत्ययः स्यात् । न तेन समानोयमिति । यष्टिसहचरितः पुरुषो यष्टिरिति यथा, यष्टिपुरुषयोरभेदोपचारात् । मृन्मये गवि सत्यगवयसदृशे गोसादृश्यस्य सामान्यस्य भावाद्गोत्वजातिप्रसङ्ग इति चेत्, न, सत्यगवयव्यवहारहेतोः सादृश्यस्य तत्राभावात् तद्भावे तस्य सत्यत्वप्रसङ्गात् । भावगवादिभिः स्थापनागवादेः सादृश्यमात्रं तु गवादिमात्रव्यवहारकारणं तदेकजातित्वनिबन्धनमनुरुध्यते एव सवादिसादृश्यवत् । ततो न मीमांसकाभ्युपगतस्वभावं करोतिसामान्यमुपपद्यते यत्सकलयज्यादिक्रियाविशेषव्यापिकर्तृव्यापाररूपभावनाख्यां प्रतिपद्यमानं वाक्येन विषयीक्रियेत । प्रतिनियतक्रियागतस्य तु करोतिसामान्यस्य शब्दविषयत्वे यज्यादिसामान्यस्य कथं तद्विनिवार्येत; येन तदपि वाक्यार्थो न स्यात् । तदेवं भावना वाक्यार्थसम्प्रदायो न श्रेयान्, बाधकसद्भावान्नियोगादिवाक्यार्थसम्प्रदायवत् । इति श्रुतिसम्प्रदायाबलम्बिनां मतेऽत एव न
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
* ट्र
परिच्छेदः प्रथमः ॥
॥ ३४ ॥