SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir नस्य सामान्यस्य विशेषप्रत्ययविषयत्वोपपत्तेर्विशेषस्वात्मवत् । ततोऽनेकमेव करोतिसामान्यं सत्तासामान्यवत् । नाप्यनंश, कथञ्चित्सांशत्वप्रतीतेः, सांशेभ्यो विशेषेभ्योनान्तरभूतस्य सांशत्वोपपत्तेस्तत्स्वा| त्मवत् । तथा न सर्वगतं तत्सामान्यं, व्यत्त्यन्तरालेऽनुपलभ्यमानत्वात् । तत्रानभिव्यक्तत्वात्तस्यानुपलम्भ इति चेत्, ततएव व्यक्तिस्वात्मनोपि तत्रानुपलम्भोस्तु । तस्य तत्र सद्भावावेदकप्रमाणाभावादसत्त्वादेवानुपलम्भ इति चेत्, सामान्यस्यापि विशेषाभावादसत्त्वादेवानुपलम्भोस्तु, व्यक्तयन्तराले तस्यापि सद्भावावेदकप्रमाणाभावात् प्रत्यक्षतस्तथाननुभवात् खरविषाणादिवत् । व्यत्त्यन्तरालेऽस्ति सामान्य, युगपद्भिन्नदेशस्वाधारवृत्तित्वे सत्येकत्वाद्वंशादिवदित्यनुमानात्तत्र तत्सद्भावसिद्धिरिति चेत्, न, हेतोःप्रतिवाद्यसिद्धत्वात् । न हि भिन्नदेशासु व्यक्तिषु सामान्यमेकं यथा स्थूणादिषु वंशादिरिति प्रतीयते, यतो युगपद्भिन्नदेशस्वाधारवृत्तित्वे सत्येकत्वं तस्य सिध्यत् स्वाधारान्तरालेऽस्तित्वं साधयेत् , प्रतिव्यक्ति सदृश| परिणामलक्षणस्य सामान्यस्य भेदाद्विसदृशपरिणामलक्षणविशेषवत् । यथैव हि काचिद्व्यक्तिरुपलभ्यमाना व्यक्त्यन्तराद्विशिष्टा विसदृशपरिणामदर्शनादवतिष्ठते तथा सदृशपरिणामदर्शनात्किञ्चित्केनचित्समानम| वसीयते इति निर्वाधमेव, तेनायं समानः सोऽनेन समान इति समानप्रत्ययात् । ननु पूर्वमननुभूतव्यत्तयन्तरस्यैकव्यक्तिदर्शने समानप्रत्ययः कस्मान्न भवति?, तत्र सदृशपरिणामस्य भावादिति चेत् , तवापि विशिष्टप्रतीतिः कस्मान्न भवति? वैसादृश्यस्य भावात् । परापेक्षत्वाद्विशिष्टप्रतीतेरिति चेत् , तत एव तत्र समान For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy