________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
कश्चित्सर्वज्ञ इत्ययुक्तं, श्रुतेरविशेषादप्रमाणतापत्तेः । इति सूक्तं " यथैव हि सुगतादयः परस्परविरुदक्षणिकनित्यायेकान्तसमयाभिधायिनः सर्वे न सर्वदर्शिन इति न कश्चित्सर्वज्ञस्तथा श्रुतयोपि परस्परविरुद्धकार्यार्थस्वरूपाद्यर्थाभिधायिन्यः सर्वा न प्रमाणभूताः" इति न काचिदपि श्रुतिः प्रमाणं स्यात्। न हि कार्येऽर्थे श्रुतिरपौरुषेयी, न पुनः स्वरूपे, येनापौरुषेयत्वात्तदन्यतरश्रुतिजनितमेव ज्ञानं प्रमाणं दोषवर्जितैः कारणैर्जनितत्वादुपपद्येत । बाधवर्जितत्वं तु नैकत्राप्यस्ति हिंसाद्यभिधायिनः “ श्वेतमजमालभेत भूतिकामः" इत्यादेः " सधनं हन्यात्" इत्यादेरिव धर्मे प्रमाणत्वानुपपत्तेः, पुरुषाद्वैताभिधायिनश्च “सर्व खल्विदं ब्रह्म” इत्यादेः “सर्व प्रधानमेव" इत्यादेरिव स्वविषये प्रमाणत्वायोगात् । अपूर्वार्थत्वं पुनः सर्वस्याः श्रुतेरविशिष्टं, प्रमाणान्तराप्रतिपन्ने धर्मादौ परब्रह्मादौ च प्रवृत्तेः । न च काचिच्छृतिः स्ययं स्वार्थ प्रतिपादयत्यन्यव्यवच्छेदेन कार्ये एवार्थे अहं प्रमाण न स्वरूपे; स्वरूपे एव वा न कार्येऽर्थे सर्वथेत्यविशेषः सिद्धः। ननु च " पदानि तावल्लोके येष्वर्थेषु प्रसिद्धानि तेष्वेव वेदे, तेषामध्याहारादिभिरर्थस्यापरिकल्पनीयत्वादपरिभाषितव्यत्वाच । सति सम्भवे लौकिकपदार्थज्ञश्च विद्वानश्रुतपूर्व काव्यादिवाक्यार्थमवबुध्यमानो दृष्टः । तद्वच्छूतिवाक्यार्थमपि कश्चित्स्वयमेवाश्रुतपूर्वमवबोद्धमर्हतीति युक्तं श्रुतेः स्वयमेवान्यव्यवच्छेदेन स्वार्थप्रतिपादनम्" इति कश्चित् , सोपि न परीक्षाचतुरः, सर्वस्याः श्रुतेस्तथाभावाविशेषात् । न च भावनैव नियोग एव वा लौकिकवाक्यस्यार्थः शक्यः प्रतिष्ठापयितुं, येन वैदिकवाक्यस्यापि स एवार्थः
For Private And Personal Use Only