SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ मङ्गलाशा डॉ० राजकुमार जैन साहित्याचार्य, आगरा जयतात्, श्री दरबारीलालः कोठियापरो धीमान् । न्यायागमसाहित्ये न वस्तुतो यस्य कापि संकक्षः ।। x दिङ्मण्डले यशोराशियस्य शुभ्रीकरोति वै । जीयात् श्रीकोठियाप्राज्ञः शश्वत् साहित्यमर्चयन् ।। मंगलकामना पं० मूलचन्द्र जैन शास्त्री, श्रीमहावीरजी गोलापूर्वसमाजनन्दनवने यश्चन्दनाभायते । वैदुष्याप्तिसुलब्धशिक्षकपदः सद्गन्धमालायते ।। आज्ञापालकशिष्ट शिष्यनिचयो गन्धान्धवृन्दायते । सोऽयं श्रीदरवारिलाल इह भोः ! स्थयाच्चिरं भूतले ॥ विद्वन्मानसराजहंससदृश ! स्याद्वादविद्याप्तितः । हेयाहेयविचारचारु चतुरां तां शेमुषी बिभ्रतः ।। ते नित्याभ्युदयो भवेदहरहः कांक्षे मनस्विन्नहम् । सद्धर्मप्रतिसेवयव दिवसा ते यान्तु निश्चिन्तया ॥ सर्वप्रियं त्वां प्रसमीक्ष्य लक्ष्मीः सरस्वती चापि मिथो विरोधम् । विस्मत्य विद्वन् ! युगपत्समेत्य साध्वी त्वदीयां प्रकृति व्यक्ति ।। सरस्वतीसाधक ! भद्रमूर्ते ! कुटुम्बिनी ते भवतात् त्वदीये । सद्धर्मकार्ये सहगामिनी, स्याद् यतोऽङ्गनायत्तगृहस्थवृत्तम् ।। सद्धर्मसेवा च समाजसेवा राष्ट्रस्य सेवा गुणिषु प्रमोदः । त्वज्जीवनं दोघंतरं च कुर्याद्विद्वज्जनानामियमस्ति, काम्या ।। यावच्चन्द्रदिवाकरौ वितनुतः स्वीयां गति चाम्बरे । यावन्मेरुशिखा स्त्रमस्तकमणि धत्ते शिलां पाण्डुकाम् ।। यावद्राजति शासनं जिनपतेर्यावच्च गंगाजलम् । तावद्धर्मपरायणस्य विदुषस्ते स्यात्कृतिः सुस्थिरा ।। त्वज्जीवनादर्श इहस्थिता सा स्ववृत्ति मालोक्य तवानुरूपा । भवेदगणीनां जनता ममषा सद्भावना केवलमस्ति चैका ।। -६८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.012020
Book TitleDarbarilal Kothiya Abhinandan Granth
Original Sutra AuthorN/A
AuthorJyoti Prasad Jain
PublisherDarbarilal Kothiya Abhinandan Granth Prakashan Samiti
Publication Year1982
Total Pages560
LanguageHindi
ClassificationSmruti_Granth & Articles
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy