SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ १६८६ महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेलेभे सुतांस्तु तदंश्या जाता आङ्गिरसा द्विजाः। पुलहोऽपि मुतं लेभे [*दम्भोलिं गुणवत्तरम् ६२ योऽगस्त्योऽभूत्पुरा राजंस्तीर्थेऽत्रैव निमज्जनात् । पुलस्त्यस्यात्र तीर्थे वै पुत्रो लब्धस्तपस्यतः॥ कुबेरोऽभून्महाभागो यः सखाऽऽसीदुमापतेः । क्रतोरपि सुता जाता वालखिल्याः सहस्रशः६४ तीर्थस्यास्य प्रसादेन ते सर्वे उर्ध्वरेतसः । रजआदीन्सुताँल्लेभे] वसिष्ठोऽपि महातपाः ॥ ६५ सप्तव राजशार्दूल महिमा तस्य वर्णितः। अन्यान्यपि च तीर्थानि सन्त्यनेकानि भूपते ।। ६६ कपिलाश्रमकेदारप्रभासादीनि वै प्रभो । नियुतैरपि वर्षाणां तेषां च महिमा नृप । अनन्तेनापि नो वक्तुं शक्यते किमु मादृशैः॥ सौभरिरुवाचएवमुक्त्वा मुनिश्रेष्ठो नारदो मुनि(नृप)पुंगवः(वम्)। शिवि जगाम मनसा नारायणगुणान्गृणन्॥ शिबिरौशीनरो राजा शक्रप्रस्थस्य वैभवम् । श्रुत्वा मुनिमुखाद्राजन्कृतार्थ स्वममन्यत ॥ ६९ तत्र स्नात्वा हि विधिवदिन्द्रप्रस्थे स भूपतिः । विधाय स्वक्रियाः सर्वा जगाम निजपत्तनम् ७० इन्द्रप्रस्थस्य माहात्म्यमेतत्तव मया विभो । यमुनातीरतीर्थस्य वर्णितं जनपावनम् ॥ ७१ नास्याऽऽदरं करिष्यन्ति कलौ श्रद्धाविवर्जिताः। इन्द्रप्रस्थस्य राजेन्द्र सर्वतीर्थशिरोमणेः॥७२ अष्टादशपुराणानां श्रवणाद्भारतस्य च । यत्फलं तन्महिम्नोऽस्य शक्रप्रस्थस्य जायते ॥ ७३ अरुणोदयवेलायां माघल:कमज्जनात् । यत्फलं तन्महिम्नोऽस्य श्रवणाच्छ्रद्धया भवेत् ॥ ७४ श्रद्धयाऽस्य तु माहात्म्यं यः शृणोति महीपते । तर्पितास्तेन पितरो देवाश्च मुनयस्तथा ॥ ७५ कृच्छ्रातिकृच्छ्रपाराकचान्द्रायणव्रतादिभिः । यत्फलं तन्महिम्नोऽस्य श्रद्धया श्रवणाद्भवेत् ॥७६ अश्वमेधादियज्ञानां समस्तानां महीपते । यत्फलं तन्महिम्नोऽस्य श्रद्धया श्रवणाद्भवेत् ॥ ७७ सूत उवाचएवं युधिष्ठिरो राजा श्रुत्वा शौनक सौभरेः । इन्द्रप्रस्थस्य माहात्म्यं स ययौ हास्तिनं पुरम्७८ ततो विनीय सद्भातन्दुर्योधनपुरःसरान् । इन्द्रप्रस्थमगात्पुण्यं राजसूयचिकीर्षया ॥ ७९ द्वारकायां समागम्य गोविन्दं कुलदैवतम् । राजसूयेन यज्ञेन स इयाज महीपतिः॥ ८० मुक्तिदं तीर्थमेतत्तु शपतोऽस्याप्य (पि) जायत(ताम्) । इति मत्वा हरिस्तत्र शिशुपालं जघान ह शिशुपालोऽपि तस्यैव तीर्थस्य मरणाद्भुवि । सायुज्यमगमत्कृष्णे निखिलार्थप्रदायके ॥ ८२ शिशुपालो हतो यत्र विहितो यत्र च क्रतुः । गदया तत्र भीमेन कृतं कुण्डं सुविस्तरम् ॥ ८३ भीमकुण्डं तु विज्ञातं जातं तद्भुवि पावनम् । कालिन्द्या दक्षिणे भागे गव्यूत्यर्धमहीतले ॥ ८४ इन्द्रप्रस्थगतायां यत्कालिन्यां स्नानतः फलम् । तत्फलं तत्र कुण्डे तु जायते नात्र संशयः॥८५ [+सूत उवाच]यस्मिन्क्षेत्रे स्थितो जन्तुस्तक्षेत्रमनुवासरम् । प्रदक्षिणादिभिधः स्वापराधान्क्षमापयेत् ॥ ८६ प्रतिसंवत्सरं चैव परिक्रामति यो नरः । क्षेत्रापराधदोषैश्च न स लिप्येत पातकैः ॥ ८७ प्रदक्षिणामकुर्वाणो क्षेत्रसिद्धिं न विन्दति । तस्मात्प्रदक्षिणा तीर्थे दातव्या च फलार्थिभिः ८८ हरेर्नामानि संजल्पमकरोति प्रदक्षिणाम् । पदे पदे स लभते कपिलादानजं फलम् ॥ ८९ ___ * धनुश्चिहान्तर्गतः पाठः क. ख. च. ज. पुस्तकस्थः । + इदमधिकम् । १ क. ख. ज. नभसा।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy