SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ + २१९ एकोनविंशत्यधिकद्विशततमोऽध्यायः] पद्मपुराणम् । १६८७ चैत्रकृष्ण चतुर्दश्यां शक्रप्रस्थप्रदक्षिणाम् । यः करोति नरो धन्यः सर्वपापैः प्रमुच्यते ॥ ९० इति श्रीमहापुराणे पाद्म उत्तरखण्डे कालिन्दीमाहात्म्य इन्द्रप्रस्थगतकाशीगोकर्णशिवकाश्चीतीर्थ सप्तकभीमकुण्डमाहात्म्य वर्णनं मामाष्टादशाधिकद्विशततमोऽध्यायः ॥ २१८ ॥ ( २४ ) आदितः श्लोकानां समष्यङ्काः - ४२४३१ समाप्तमिदं कालिन्दी माहात्म्यम् । अथ माघमाहात्म्यम् । अथैकोनविंशत्यधिकद्विशततमोऽध्यायः । [* (व्यास उवाच ) - ४ आरब्धुं नैमिषारण्ये सत्रं द्वादशवार्षिकम् । आजग्मुरखिलास्तत्र मुनयो ब्रह्मवादिनः ॥ असितो देवलश्चैव सुमन्तुः पौ (पैल एव च । सुमतिर्वामदेवश्च जाबालिः काश्यपो भृगुः ॥ २ पर्वतः शरभङ्गश्च सुतीक्ष्णोऽगस्त्य एव च । आपस्तम्बोऽणिमाण्डव्यः सत्यः कात्यायनस्तथा ३ रथtतरोऽङ्गिराचैव कपिलो रैभ्य एव च । मुद्गलो गौतमश्चैव कण्वः कणोऽत्रिरेव च ॥ धूम्रो हारीतकः शङ्कुः पृथुर्मङ्कुश्च संकृतिः । कौण्डिन्यो निर्धु (धु) वश्चैव काणादो गर्ग एव च ५ कौशिको गालar ag: शुकः शक्तिः पराशरः । शिनिर्विभाण्डकः पङ्को बुधो बौधायनो वसुः ६ जमदग्निर्भरद्वाजो धूमपो मौनभार्गवः । शौनको नारदचैव शतानन्दः शतातपः ॥ विष्णुवृद्धो विशालाक्षो जर्जरो जङ्गमो जयः । पकः पाशधरः पारः पारगः पण्डितोत्तमः ॥ महाकायो महाग्रीवी महाबाहुर्महोदरः । उद्दालको महासेन आर्त आमलकप्रियः । एकपादोऽर्धपादश्च ऊर्ध्ववाद्दुर्जलाशनः । उग्रशीलो महाशीलः पिङ्गलो मत्रवित्पटुः ॥ शण्डिरः करुणः कालः कैवल्यश्च कलाधरः । कल्पान्तः कङ्कणः कण्डुः कठः कालाग्निरुद्रगः श्वेतवाहुर्महाप्राज्ञः श्वेताश्वतरसंज्ञकः । एतैः शिष्यैः प्रशिष्यैश्च ब्रह्मिष्ठा वेदपारगाः ॥ ७ ሪ * धनुश्चिह्नान्तर्गतग्रन्थस्थाने केषुचित्पुस्तकेषु — "ऋषय ऊचु:-- सूत सूत महाभाग त्वया लोकहितैषिणा । कथितं कार्तिकाख्यानं भुक्तिमुक्तिप्रदायकम् ॥ अधुना माघ माहात्म्यं वद नो लोमहर्षणम् । श्रुतेन येन लोकानां संशयः क्षीयते महान् ।। पुरा केन महाभाग लोकेऽस्मिन्संप्रकाशितम् । माघस्नानस्य माहात्म्यं सेतिहासं तदादिश ।। सूत उवाच - साधु साधु मुनिश्रेष्ठा यूयं कृष्णपरायणाः । यत्पृच्छय मुदा युक्ता भक्त्या कृष्णकथा मुहुः ॥ कथयिष्यामि माघस्य माहात्म्यं पुण्यवर्धनम् । पापघ्नं सेवतां पुंसां स्नातानां चारुणोदये || एकदा पार्वती विप्राः शंकरं लोकशंकरम् । पप्रच्छ विनयोपेता दृष्ट्वा तच्चरणाम्बुजम् || पार्वत्युवाच - देव देव महादेव भक्तानामभयप्रद । प्रसीद नाथ विश्वेश यत्पृच्छे तद्वदाधुना ॥ श्रुता नानाविधा धर्मास्वत्तः पूर्व मया विभो । अधुना श्रोतुमिच्छामि माहात्म्यं माघजं वद ॥ तत् केन पुरा चीर्ण को विधिः का च देवता । तत्सर्व विस्तगहि यतस्त्वं भक्तवत्सलः ॥ महेश्वर उवाच" - इति ग्रन्थ उपलभ्यते । ९ १० (कः) १२
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy