SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ अवन्तिसुन्दरी। ध्वनिप्रबन्धषिद्रावितः सरमसमहास्यतेव बिकस्वरेण कुमुदकोकनदसरस्सहलेण । तस्मिंश्च शङ्के कलशोद्भवपानभयादिबोधस्सु धेनूनां लीनः क्षीरसागरः। हरिकुलिशव्यसनशस्येव तिरस्कृस्यात्मानं सुरभवनीभूतानि भूधरकुलानि । राहुमुखविषनिषेकदूषणमियेव सोमेन सुधारसः पुण्डे क्षुषु क्षिप्तः । प्रबलपवनपर्यासत्रासेनेव चापहाय मरुत्पथमवनिलमानि तरुषण्डच्छलेन मेघमण्डलानि । ___ तस्य चैवंविषस्य मण्डनं मगधविषयस्य, मयाः स्वर्गविजयसाधनं, अपवर्गसुखतिरस्कारकारणं जीवोज्जीवस्य, जाह्रषीपरिमोगरागरोषितेनोर्मिमालिनेव महता खातवलयोपरुद्धम् उत्तुङ्गधवलप्राकारमध्यवर्तितया पौरतरुणसुन्दरीकान्तिभावनाहेतोरिन्दुमण्डलादिवोत्कीर्य क्षिप्तम् , अमलमणिभूमिगर्भसंक्रान्त. प्रतिबिम्बतया विततमणिमयूखजालपस्ताक्ष्यैरिव रसातलमुरगोवरणहेतोविशद्भिर्दारुसारमयैः महापासादैरुपशोभितम् , उदयसमुद्रगाधदर्शनोस्क्षिप्तपुरदेवताभुजलतानुकारिमिः खातवलयपिनद्धैर्मणितोरणैः समुल्लासितम्, उन्मीलदनेकरत्नरागवलयिमिरतिरभसरतिविहारविच्छिनैलक्ष्मीमेखलागुणैरिव विपणिपथैरुपेतम्, उन्मदहंसमण्डलचलितेन्दी...राजिभिरुन्मिपत्तारकागणकरालितान्धकारसन्ध्यारागैरम्बरैकदेशैरिव मण्डलीकृतैः मणित(द ! ट)रश्मिजालसन्दिग्धवारिभिः सरोमिरुद्भाजमानम् , उपवन..तबहुविधकुसुमधूलिपाटलपटम् उपरिलममुष्णीषमिव सकलनगराधिपत्यचिहमुद्रहद्भिः, ग्रहणोपरिगमनावलेपवारणायेव प्रकङ्कमानोच्छूिनप[ताकव्यस्तम् अखिलजम्बूद्वीपलक्ष्मील ]तैककुसुमं कुसुमपुरं नाम समप्रस्त्री. पुरुषरत्नसारसंभूतिसागरायमाणं नगरमभवत् ।. 1. 2. 3. Read खातवलयेनोपरुवं. 4. L. about 4 letters. A reads समुद्भासितं. page 10. 5. The clause is incomplete. L. about 4 letters. 6. A reads प्रकम्पमान• page 10.
SR No.010581
Book TitleAvantisundari
Original Sutra AuthorN/A
AuthorDandi Acharya
PublisherSurnad K Pillai
Publication Year
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy