SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ( १९२ ) जामणीति । या मणिबन्धात् प्रवृत्ता-संप्राप्ताऽनामिकाङ्गुलिं रेखा सा करोति सार्थवाहं नरपतिशतपूजितं पुरुषम् ॥२१॥ लेखां प्राह तूरिया मणिबंधा उपया कजिठा जाव जागया रेहा । साकुणइ जससामद्धं सिठि बहुवितसंजुतं ॥ १२२॥ मणीति । मणिबन्धात् प्रवृत्ता कनिष्ठां यावद् या गतारेखा सा करोति यशः । समृद्धं श्रेष्टिनं बहुवित्तसंयुक्तम् । इति प्रकरणकृन्मते चतुर्द्धा ऊर्द्ध लेखा द्वयस्य प्रागेवोक्तेः ॥ १२ ॥ पञ्चम्या उर्ध्व रेखायाः कलं विद्येत्याह- मणिधार रेहा अंगुठपएसिणी णामगभया । सा कुण सत्थजुत्तविनाण वियरकणं पुरिसं ॥ १२३ ॥ भणीति । मणिबन्धाद्रेखा - अङ्गुष्ट प्रदेशिन्योर्मध्ये गता सा करोति शास्त्रयुक्तं विज्ञानविचक्षणं पुरुषं इयं रेखातु गोत्ररेखेव प्रतिभासते यदीय विद्या रेखा तदामणिबन्धकनगेऽपि मणिबन्धस्य वामकोण एव प्रायस्तत्रैव नक्षत्र चक्रे पुण्यम्य गुरुदैवतस्य सद्भावेन विद्यारखाया औचित्यात्, सर्वत्र मणिबन्धग्रहणं तस्य सर्वोवरेखा मूलत्वेन प्राधान्य ज्ञापकं तेन मणिबन्के कोटिसंख्या विवेकविलासे || २३ ॥ शैव सामुद्रिकेऽपि -- अङ्गुष्ठस्यापि यद्यन्ते ब्रूते नृपतिमुत्तमम् । सैव तर्जनीकां प्राप्ता राज्यसंपदमुत्तमम् ॥ १ ॥ सेनापतिं घनेशत्वं मध्यमां गतया तया । अनामिकां पुनः श्रेष्टी धनवान् सभवेन्नरः ॥ २ ॥ सुखिनं सुभगंवापि यदि प्राप्ता कनिष्ठिकाम् । नरं करोति तादृक्षं भाग्यवन्तं महाबलम् ॥ ३ ॥ इति । ऊर्द्ध रेखा पञ्चकफलं स्पष्टं निगद्य चतुर्विधत्वमप्याह "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy