SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ भवभावना-३२ [म्] तह रज्जं तह विहवो, तह चउरंगं बलं तहा सयणा। कोसंबिपुरीराया, न रक्खिओ तह वि रोगाणं॥३१॥ [तथा राज्यं तथा विभवः तथा चतुरङ्गं बलं तथा स्वजनाः। कौशाम्बीपुरीराजो न रक्षितः तथापि रोगेभ्यः॥३१॥] [अव] तह। तथा शब्दोऽतिशयख्यापनपरो द्रष्टव्यः। शेषं सुगमम्। चन्द्रसेननृपकथा अत्र कथानकं यथा-कौशाम्ब्यां चन्द्रसेनो राजा, सुलोचन: सुतः। अन्यदा वसन्तक्रीडायां कृतलक्षस्वर्णव्यय: सुलोचनो राज्ञापमानितो देशान्तरं गतः। तत्सन्निधानात् क्वापि धातुवादिनां स्वर्णसिद्धिः। तैस्तस्य स्वर्णं दत्तम्। स कुरुदेशं गत:। हेमन्ते वनान्त: क्वचिन्नरं शीतार्तं निश्चेष्टं दृष्ट्वा कृपया सद्योज्वालि-ताग्नितापादिना सचैतन्यं चक्रे। स प्राह-“अहं राजपुरवासिपुरुषदत्तराज्ञः सूराख्य: सुतस्तुरगापहृतोऽत्रागतो निशि शीतपीडितस्त्वया सज्जीकृत:।” तेनापि स्वस्वरूप-मुक्तम्। द्वावपि प्रीतौ गजपुरं गतौ। सूरसंयोगात् सोऽपि दृढजिनधर्मो जात:। अन्यदा विरक्त: सूरः सुलोचनं पित्रो: पत्रस्थाने समर्प्य प्राव्रजत्। नृपोऽपि तं स्वपदे न्यस्य प्रव्रज्य स्वर्गत:। अन्यदा कौशाम्ब्यागतमन्त्री सुलोचनमाह-“देव! तव पिता चन्द्रसेन: कासादिरुग्(क्)पीडितस्त्वां मिमिलिषुरस्ति।” इति श्रुत्वा घनान्वैद्यमान्त्रिकादिल्लात्वा कौशाम्ब्यां गत्वा चिकित्सामकारयत्। तथाप्यनु[प]-शान्तरोगोऽत्राणो विपेदे। सुलोचन: पितुर्बहुरोगार्तस्याशरणतां ज्ञात्वा द्वे राज्ये त्यक्त्वा निर्विण्ण: प्रव्रज्य सिद्धः॥ इति कौशाम्बीपुरीराजकथानकम्॥३१॥ [म] सविलासजोव्वणभरे, वर्सेतो मुणइ तणसमं भुवणं। पेच्छइ न उच्छरंतं, जराबलं जोव्वणदुमग्गिं॥३२॥ [सविलासयौवनभरे वर्तमानो जानाति तृणसमं भुवनम्। प्रेक्षते न उत्सर्पज्जराबलं यौवनद्रुमाग्निम्॥३२॥] । [अव] सवि.। जराया बलं परिकरभूतं वायुश्लेष्मेन्द्रियवैकल्यादिकमिदं च यौवनद्रुमस्याग्निरिव। यथाग्निर्दग्ध्वा भस्मावशेषं कुरुते द्रुमम्, एवं जराबलमपि पलितावशेष यौवनं विदधातीति भावः॥३२॥ किमत्यसौ तन्न पश्यतीत्याह
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy