SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ भवभावना-११ [प्रथमा अनित्यत्वभावना अनित्यत्वभावनां तावदाह[मू सव्वप्पणा अणिच्चो, नरलोओ ताव चिट्ठउ असारो। जीयं देहो लच्छी, सुरलोयम्मि वि अणिच्चाइं॥११॥ सर्वात्मनानित्यो नरलोकस्तावत् तिष्ठत्वसारः। जीवितं देहो लक्ष्मीः सुरलोकेऽप्यनित्यानि॥११॥] _ [अव] नरलोकस्तावत् सर्वात्मना नगनगरग्रामभवनादिभिः सर्वप्रकारैरनित्य इति प्रत्यक्षसिद्धत्वात् तिष्ठतु। ये तु सुरलोका लोके शाश्वततया प्रसिद्धास्तत्रापि भवनादिभावानां कथञ्चिच्छाश्वतत्वेऽपि जीवितान्यनित्यान्येव। जीवितदेहयोः सुचिरमपि स्थित्वा कदाचित् सर्वनाशेन विनाशात्, लक्ष्म्या अपि महर्द्धिकैरपरैः तदपह्रियमाणत्वादिति॥११ [v] नइपुलिणवालुयाए, जह विरइयअलियकरितुरंगेहिं। घररज्जकप्पणाहि य, बाला कीलंति तुट्ठमणा॥१२॥ [नदीपुलिनवालुकादौ यथा विरचितालीककरितुरङ्गः। गृहराज्यकल्पनाभिश्च बालाः क्रीडन्ति तुष्टमनसः॥१२॥] [म] तो सयमवि अन्नेण व, भग्गे एयम्मि अहव एमेव। अन्नोऽन्नदिसिं सव्वे, वयंति तह चेव संसारे॥१३॥ [ततः स्वयमपि अन्येन वा भग्ने एतस्मिन्नथवा एवमेव। अन्यान्यदिशं सर्वे व्रजन्ति तथैव संसारे॥१३॥] [मू] घररज्जविहवसयणाइएसु रमिऊण पंच दियहाई। वच्चंति कहिं पि वि निययकम्मपलयानिलुक्खित्ता॥१४॥ [गृहराज्यविभवस्वजनादिकेषु रत्वा पञ्च दिवसान्। __ व्रजन्ति कुत्रापि निजककर्मप्रलयानिलोत्क्षिप्ताः॥१४॥] [अव] यथा नदीपुलिनवालुकादौ तथाविधतत्कार्यासाधकत्वेनालीकविरचितकरितुरङ्गमादिभिर्गृह- राज्यादिभिस्तुष्टमनसः क्रीडन्ति। ततः स्वयमेव यदृच्छयान्येन केनचिदेतस्मिन् करितुरङ्गादिके भग्नेऽभग्नेऽप्येवमेव स्वेच्छयान्यान्यदिक्षु ते सर्वेऽपि व्रजन्ति। एवं संसारेऽपि सुरनरचक्रवर्त्यादयः प्राणिनो गृहराज्यविभवभार्या
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy