SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ भवभावना - १९ स्वजनादिषु स्वां(रन्त्वा =) रतिं बद्ध्वा पञ्च दिनानि ततो निजकर्मैव प्रलयकालानिलास्तेनोत्क्षिप्ताः शुष्कपत्रतृणादिवत् क्वापि नरकादौ व्रजन्त्यदृश्या भवन्ति, यथा तेषां नामापि न ज्ञायते पश्चात् । पल्योपमसागरोपमापेक्षया मनुष्यभवस्याः (अवस्थाया) अपि तुच्छत्वख्यापनार्थं पञ्चदिनग्रहणम्॥१४॥ [मू] अहवा जह सुमिणयपावियम्मि रज्जाइइट्ठवत्थुम्मि । खणमेगं हरिसिज्जंति, पाणिणो पुण विसीयंती ॥१५॥ [अथवा यथा स्वप्नप्राप्ते राज्यादीष्टवस्तुनि । क्षणमेकं हृष्यन्ति प्राणिनः पुनर्विषीदन्ति ॥१५॥] [अव] 'मदीयमन्दिरे तेजस्स्फुरद्रत्नराशयः, द्वारे तु महास्तम्भार्गलिताः प्रवरकरिणः, मेदुराः = सुजात्यतुरगाः, विहितश्च मे राज्याभिषेको महाविस्तरेण' इत्यादिप्रकारेण यथा स्वप्नेऽभीष्टवस्तुप्राप्तौ क्षणमेकं हृष्यन्ति जन्तवः, निद्रापगमे तन्मध्यादग्रतः किमप्यदृष्ट्वा विषीदन्ति॥१५॥ [मू] कइवयदिणलद्धेहिं, तहेव रज्जाइएहिं तसंति । विगएहि तेहि वि पुणो, जीवा दीणत्तणमुवेंति ॥ १६ ॥ [कतिपयदिनलब्धैस्तथैव राज्यादिकैस्तुष्यन्ति । विगतैः तैरपि पुनर्जीवा दीनत्वमुपयन्ति॥१६॥] [अव] एवं साक्षात् कतिपयदिनलब्धराज्यादिष्वपि भावनीयम्॥१६॥ अथेन्द्रजालादिसादृश्येन सर्वसमुदायानामनित्यतामाह रूप्य. - [मू] रुप्पकणयाइ वत्थं, जह दीसइ इंदयालविज्जाए । खदिट्ठनरूवं, तह जाणसु विहवमाईयं ॥ १७ ॥ [रूप्यकनकादि वस्तु यथा दृश्यते इन्द्रजालविद्यया। क्षणदृष्टनष्टरूपं तथा जानीहि विभवादिकम्॥१७॥] [मू] संझब्भरायसुरचावविब्भमे घडणविहडणसरूवे । विहवाइवत्थुनिवहे, किं मुज्झसि जीव ! जाणंतो ? ॥ १८ ॥ [सन्ध्याभ्ररागसुरचापविभ्रमे घटनविघटनस्वरूपे। विभवादिवस्तुनिवहे किं मुह्यसि जीव ! जानानः ?॥१८॥] [मू] पासायसालसमलंकियाइं जड़ नियसि कत्थइ थिराई। गंधव्वपुरवराई, तो तुह रिद्धी वि होज्ज थिरा ॥१९॥
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy