SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ भवभावना-४९३ [जिनधर्मसार्थवाहो न सहायो येषां भवमहारण्ये । कथं विषयवञ्चितानां निर्वृत्तिपुरसङ्गमस्तेषाम् ?||४८८॥] [मू निययमणोरहपायवफलाई जड़ जीव ! वंछसि सुहाई। तो तं चिय परिसिंचसु, निच्चं सद्धम्मसलिलेहिं ॥ ४८९ ॥ [निजकमनोरथपादपफलानि यदि जीव ! वाञ्छसि सुखानि । ततस्तमेव परिषिञ्च नित्यं सद्धर्मसलिलैः ॥ ४८९ ॥] [अव] [भव.] इत्यादिगाथाः सुगमाः॥ [मू] जइ धम्मामयपाणं, मुहाए पावेसि साहुमूलम्मि। ता दविणेण किणेउं, विसयविसं जीव ! किं पियसि ? ॥ ४९० ॥ [यदि धर्मामृतपानं मुधा प्राप्नोषि साधुमूले। ततो द्रविणेन क्रीत्वा विषयविषं जीव ! १४१ पिबसि ? ||४९० ||] [अव] अयं परमार्थः। विषयाः शब्द-रूप-रस-स्पर्श-गन्धरूपास्तव नरकादितीव्रवेदनाहेतुत्वाद्विषमिव विषम्। तच्च विषयविषं स्वल्पमप्यर्थे नैव सम्प्राप्यते धर्मस्त्वमृतपानरूपः सुरमनुजमोक्षसुखहेतुत्वात्। स च साधुमूले मुधैव लभ्यते, परं मोहविपर्यस्तो जीवस्तं परिहृत्य द्रविणेनापि विषयविषमेव पिबतीति यावत्॥ ४९०॥ [मू] अन्नन्नसुहसमागमचिंतासयदुत्थिओ सयं कीस ? | कुण धम्मं जेण सुहं, सोच्चियं चिंतेइ तुह सव्वं॥४९१॥ [अन्यान्यसुखसमागमचिन्ताशतदुःस्थितः स्वयं कुतः ?। कुरु धर्मं येन सुखं स एव चिन्तयतु तव सर्वम्॥४९९॥] [मू] संपज्जंति सुहाई, जइ धम्मविवज्जियाण वि नराणं । ता होज्ज तिहुयणम्मि वि, कस्स दुहं ? कस्स व न सोक्खं॥४९२॥ [सम्पद्यन्ते सुखानि यदि धर्मविवर्जितानामपि नराणाम्। ततो भवेत् त्रिभुवनेऽपि कस्य दुःखं ? कस्य वा न सौख्यम् ?॥४९२॥] [मू] जह कागिणीइ हेउं, कोडिं रयणाण हारए कोई । तह तुच्छविसयगिद्धा, जीवा हारंति सिद्धिसुहं॥४९३॥ [यथा काकिन्या हेतवे कोटिं रत्नानां हारयति कश्चित्। तथा तुच्छविषयगृद्धा जीवा हारयन्ति सिद्धिसुखम्॥ ४९३॥]
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy