SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. marrioran स्फुरन्मङ्गलदीपं च, स्थापयानुभवं पुरः। योगनृत्यपरस्तूर्य-त्रिकसंयमवान् भव ॥६॥ व्या०-स्फुरन्मङ्गलेति च पुनः 'स्फुरंत' देदीप्यमानं सर्वद्रव्यभावोपद्रववियुतं मंगलदीपं भावप्रकाशं 'अनुभव' स्पर्शज्ञानं आत्मस्वभावास्वादनयुक्तं ज्ञानं 'पुरः' अग्रे स्थापय, योगाः मनोवाक्कायरूपाः तेषां साधनप्रवर्त्तनरूपं "नृत्यं तांडवं तत्र 'तत्परः' सोद्यमः सन् परमाध्यात्मधारणाध्यानसमाधिरूपसाधनयोग्ययोगपरिणमनरूपतूर्यादिपूजात्रयमयो भव, इत्यनेन आभ्यंतरपूजया तत्त्वानंदमयश्चैतन्यलक्षणं स्वात्मानं तद्रूपं कुरु ॥ ६ ॥ उल्लसन्मनसः सत्य-घण्टा वादयतस्तव। भावपूजारतस्येत्थं, करकोडे महोदयः ॥७॥ ___ व्या०-उल्लसन्मनस इति इत्थं भावपूजारतस्य तव 'महोदयः' मोशः 'करक्रोडे' हस्ततलेऽस्ति किं कुर्वतः १ उल्लसम्मनसः भावोल्लासयुक्तचित्तस्य सत्यपर्यायरूपां घंटां वादयतः शब्दं कुर्वतः इत्यनेन सहर्षसत्यमनउल्लासरूपां घंटां नादयतः सतः पूर्वोक्तपूजाकरणेन सर्वस्वशक्तिप्रादुर्भावरूपो मोक्षो भवति ॥ ७॥ द्रव्यप्रजोचिता भेदो-पासना गहमेधिनाम। भावपूजा तु साधूना-मभेदोपासनात्मिका ॥८॥ व्या-द्रव्यपूजेति 'गृहमेधिनां' गृहस्थानां "भेदोपासनारूपा" आत्मनः सकाशात् अर्हन् परमेश्वरः भिन्नः निष्पलानदचिद्विलासी तस्योपासना सेवना निमित्तालंबनरूपा द्रव्यपूजा 'उचिता' योग्या तु पुनः साधूनां अभेदोपासनात्मिका परमा For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy