________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'ध्याने' धर्मशुक्ले. ते एव आभरणस्य सारं प्रधानं परमात्राणि निवेशय । इत्येवं गुणपरिणमनरूपां पूजां कुरु ॥ ३ ॥ मदस्थानभिदात्यागैर्लिखाग्रे चाष्टमङ्गलम् । खानानो शुभसङ्कल्प-काकतुण्डं च धूपब ॥ ४ ॥ . व्या०-मदस्थानेति-'मदः' मानोन्मादः तस्य स्थानानि तानि एव मिदाः तापां 'त्यागैः, वर्जनैः अष्टमंगलं अये लिखच ज्ञानादौ ‘शुभसंकल्पः शुभरागपरिणामः तद्रूपं 'काकतुण्डं' कृष्णागरुं धूपयः । इत्यनेन रागाध्यवसायाः शुभाः पुण्यहेतवः सिकिसाधने त्याज्या एव अतो ज्ञानबलेन तत्त्यागो भवति ॥ ४ ॥ प्राग्धर्मलवणोत्तारं, धर्मसन्न्यासवहिना । कुर्वन् पूरय सामर्थ्य-राजन्नीराजनाविधिम् ॥ ५॥
व्यो -प्राग्धर्मेति अत्रात्मस्वरूपार्चने 'धर्मसन्न्यासवह्निना' वर्नः स्वरूपसत्ता सहजपारिणामिकलक्षणः चंदनगंयतुल्यः तस्य सम्यग् न्यासः स्थापनं स एव वह्निः तेन प्राक् पूर्वसाधनरूपः धर्मः सविकल्पभावनारूपः तदेव लवणं तस्योत्तारं निवारणं निर्विकल्पसमाधौ साधकस्यापि संविकल्पधर्मस्य त्याग एव भवति, एवं भावरूपं अपवादसाधनरूपलवणोत्तारं कुर्वन् सामर्थ्यराजनीराजनांविधि पूर्वसामर्थ्ययोगस्वरूपा राजंती शोभमाना नीराजना आरात्रिका तस्याः विधिः तं पूरय । सामर्थ्ययोगस्वरूपं च यत्र कर्मबंधहेतुषु प्रवर्त्तमानवीर्यस्य न ताक् प्रवृत्तिः स्वात्मधर्मसाधमानुभवैकत्वे प्रवर्त्तमानः निष्प्रयासत्वेन प्रवर्तते. स योगः समर्थ उच्यते ॥५॥
For Private And Personal Use Only