SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३९२ ध्यानाष्टकम्. त्मना स्वात्माभेदरूपा भावपूजा उचिता । यद्यपि सविकल्पकभावपूजा गुणस्मरणबहुमानोपयोगरूपा भावपूजा गृहिणां भवति, तथापि निर्विकल्पोपयोगस्वरूपैकत्वरूपा भावपूजा निर्ग्रथानामेव, एवं आस्रवकषाय योगचापल्यपरावृत्तिरूपद्रव्यपूजाभ्यासेन अर्हद्गुपास्वात्मधर्मैकत्वरूपभावपूजावान् भवति तेन च तन्मयतां प्राप्य सिद्धो भवति, इत्येव साधनेन साध्योपयोगमुक्तेन सिद्धिः निष्कर्मा भवति ॥ ८ ॥ इति व्याख्यातं भावपूजाष्टकम् ॥ २९ ॥ अथ ध्यानाष्टकम् ॥ ३० ॥ अथ ध्यानाष्टकं विस्तार्यते । ध्यानलक्षणं निर्युक्तौ-अंतो मुद्दत्तमित्तं, चित्तावत्थाण एगवत्थुमि । उत्थाणं झाणं, जोगनिरोहो जिणाणं तु ॥ १ ॥ नामादिकं स्वतो वाच्यं तत्र ध्यानस्वरूपं निरूपयन्नाहध्याता ध्येयं तथा ध्यानं, त्र्यं यस्यैकतां गतम् । मुनेरनन्यचित्तस्य, तस्य दुःखं न विद्यते ॥ १ ॥ व्या० - ध्याता ध्येयमिति यस्य पुरुषस्य ध्याता ध्येयं तथा ध्यानं एतत् त्रयं यस्य जीवस्य 'एकता' एकभावं गतं तस्य मुनेः 'अनन्यचित्तस्य' तद्रूपवेतनामयस्य अर्हत्स्वरूपात्मस्वरूपतुल्योपयोगगृहीतस्य 'दुःखं' स्वगुणावरणरूपं पुद्गलसंनिकर्षजन्यं न विद्यते नास्तीत्यर्थः । उक्तं च प्रवचनसारे जो जाणई अरिहंते, दत्तगुणत्तपज्जवत्तेहिं । सो जाणइ अप्पाणं, मोहो खलु जाइ तस्स लयं ॥ १ ॥ २०४ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy