SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ज्ञानमंजरी टीका. ३२५ स्थेयं ? न क्वापि, स्वयमेव स्वस्य त्रातुं समर्थत्वात् कथंभूतस्य मुनेः ? ' ज्ञेयं' स्वपरपदार्थस्य समूहं ज्ञानेन अवबोधेन पश्यतो ज्ञायमानस्य ॥ ३ ॥ Acharya Shri Kailassagarsuri Gyanmandir एकं ब्रह्मास्त्रमादाय, निघ्नन्मोहचमूं मुनिः । बिभेति नैव सङ्ग्राम- शीर्षस्थ इव नागराट् ॥४॥ व्या०. - एकमिति - मुनिः स्वरूपतः परभावविरतः, न बिभेति न भयवान् भवति, किं कुर्वन् ? मोहचमूं निघ्नन्, मोहसैन्यस्य ध्वंसं कुर्वन् किं कृत्वा ? 'ब्रह्मास्त्र' ब्रह्मज्ञानं आत्मस्वरूपावबोधः तदेवाखं शस्त्रं आदाय गृहीत्वा क इव ? संग्रामस्य शीर्ष तत्र तिष्ठति संग्रामशीर्षस्थ : 'नागराद' नागराजो गजश्रेष्ठ इव, यथा गजश्रेष्ठः संग्रामे न बिभेति तथा मुनिः कर्मपराजये प्रवृत्तः न भयवान् भवति, यो हि स्वरूपासक्तः तस्यं परभावध्वंसनो - द्यतस्य भयं न भयं हि परसंयोगविनाशे भवति तद्विनाशश्वास्य क्रियमाण एव अतो न भयं वाचंयमस्य शरीरादिसर्वपरभावविरतत्वात् ॥ ४ ॥ मयूरी ज्ञानदृष्टिश्चेत्, प्रसर्पति मनोवने । वेष्टनं भयसर्पाणां, न तदानन्दचन्दने ॥ ५ ॥ व्या० - मयूरी इति - 'मनोवने' चित्तोद्याने 'चेत्' यदि 'ज्ञानदृष्टि: ' स्वभावपरभावविवेचनदृष्टिः मयूरी ' प्रसर्पति' स्वेच्छया विचरति तदा 'आनंदचंदने' स्वरूपानुभवानंदचंदने भयस वेष्टनं न भवतीत्यर्थः । इदमुक्तं भवति - ज्ञानेन स्वपरयोर्विभेदे कृते स्वस्यामूर्त्तचिघनत्व निर्धारपर संयोगस्य परत्यनिर्धारे जाते भयस्योदयो न भवति ॥ ५ ॥ 65 For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy