SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३२६ निर्भयाष्टकम् कृतमोहास्त्रवैफल्यं, ज्ञानवर्म बिभर्ति यः । क भीस्तस्य क्व वा भङ्गः कर्मसङ्गरकेलिषु ? ॥६॥ Acharya Shri Kailassagarsuri Gyanmandir व्या० - कृतमोहास्त्रेति तस्य स्वरूपानंदभोक्तुः 'कर्मसंगरकेलिए' कर्मक्षयकरणसंग्रामे 'भी: ' भयं क ? भंगः क्व ? नैवेति, तस्य कस्य ? यः कृतमोहास्त्रवैफल्यं कृतं मोहास्त्रस्य वैफल्यं निष्फलत्वं येन एवंविधं ज्ञानवर्म ज्ञानसन्नाहं बिभर्त्ति धत्ते, सर्वमोहविदारणदारुणज्ञानसंनाहधरस्य, कर्मकृतस्वगुणघातभीः क्व ? इदमुक्तं भवति येन नयविभजनपरीक्षितः स्वपरपदार्थः तस्य मोहादीनां भयं न ॥ ६॥ तूलवल्लघवो मूढा, भ्रमन्त्य भ्रं भयानिलैः । नैकं रोमापि तैर्ज्ञान-गरिष्ठानां तु कम्पते ॥ ७ ॥ व्या० - तूलवदिति- 'मूढा' स्तवज्ञानविकलाः तूलवलघवः अप्रे आकाशे 'भयानिलैः ' भयपवनैः प्रेरिता भ्रमंति, ज्ञानगरिष्ठानां एक रोमापि तैः पवनैर्न कंपते इत्यनेन सप्तभयसंनिधाने मूढाः परभावात्मत्वज्ञानमुग्धाः तद्वियोगभयेन कंपमाना इतस्ततो भ्रमंति, ये चासंख्यातप्रदेशानंतज्ञानमयस्यात्मनः स्वरूपावलोकिनो ज्ञानगरिष्ठा अविनाशिचैतन्यभावरक्ताः तेषां अध्यवसायरूपं रोमापि न कंपते किं च गत्वरैः गतैरिति अध्यात्माभ्यासैकत्वानंदानंदिताः सदा निर्भयाः स्वरूपे स्थिराः तिष्ठति ॥ ७ ॥ चित्ते परिणतं यस्य, चारित्रमकुतोभयम् । अखण्डज्ञान राज्यस्य, तस्य साधोः कुतो भयम् ॥८॥ व्या० - चित्ते इति-यस्य निर्ग्रथस्य 'अकुतोभयं न विद्यते कुतः कस्माद् भयं यस्य तत् चारित्रं स्वरूपस्थिरत्वलक्षणं १३८ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy