SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९२ मौनाष्टकम् ग्रहरूपं स्वधर्मप्राग्भावकर्तृत्वभोक्तृत्वे व्यापारिताशेषवीर्यस्य कर्मबिकरणापूर्वकरणकिट्टिकरणादिषु स्थापितवीर्यकरणस्य परभावाप्रवृत्तत्वेन-मौनं-योगचापल्यतावारणरूपं अनुत्तरं-सर्वोत्कृष्टं यस्यक्रियागुणप्रकर्षप्रवर्तनावीर्यप्रवृत्तस्यापि चिन्मयी-स्वरूपज्ञानमयी आत्मानुभवकत्वरूपा, तथा-प्रदीपस्य या क्रिया-उत्क्षेपणादिका या सर्वापि ज्योतिर्मयी-आत्मानुभवैकत्वरूपा, यथा दीपस्य या क्रिया उत्क्षेपणनिक्षेपणादिका या सा सर्वापि ज्योतिर्मयी ज्ञानप्रकाशयुक्ता, तथा यस्य वंदननमनादिगुणस्थानारोहरूपा क्रिया तत्त्वज्ञानप्रकाशिका तस्य अनन्यस्वभावस्य-न विद्यते अन्यःपरः स्वभावो यस्य स तस्य, परभावव्यापकचेतनाभिसंधिवीर्यरहितस्य साधोः मौनं अनुत्तरं, वियत्सुखभावानुरोधादेव तत्कारकात् वियत्संपूर्णता, तदुत्पत्तौ 'कुंभस्येव दशाऽऽत्मनः' इति न्यायात् ज्ञानिनः क्रिया ज्ञान्युपकारका ज्ञातव्या, ज्ञाननयस्यात्मनः तत्त्वैकत्वाध्यासिनः स्वरूपारोहका या क्रिया सा ज्ञानस्वरूपप्रकाशहेतुः आचरणनिमित्तमसक्रिया आचरणापगमाय सक्रिया निमित्तं भवति, तत्त्वमग्नस्य न कारणीभवति, अतः तत्त्वज्ञानस्वरूपैकत्वध्यानलीनानां मुनीनां तेषां एव नमश्चरणयोः ॥८॥ इति व्याख्यातं मौनाष्टकम् ॥ १३ ॥ अथ विद्याष्टकम् ॥ १४ ॥ अथेदृग् मौनाष्टकं यथार्थविद्यातत्त्वोपयोगिबुद्धिवतो भवति, अतो विद्याष्टकमुपदिशति,-तत्र नामविद्या इति नाम जीवस्याभिधानं क्रियते सा नामविद्या, अक्षवराट ककादि विद्या इति स्थाप्यते सा स्थापनाविद्या, द्रव्यविद्या लौकिका शिल्पादिरूपा, लोकोत्तरा द्विविधा-कुप्रावचनिका भारतरामायणोपनिषद्रपा' लोको १०४ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy