SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AA ज्ञानमंजरी टीका. mmmmmmm ततोऽन्यस्य जीवस्याधिकतरवीर्यस्योपदर्शितप्रकारेण तृतीयं योगस्थानं वाच्यं । एवमन्योऽन्यजीवापेक्षया तावत् योगस्थानानि वाच्यानि यावत्सर्वोत्कृष्ट योगस्थानं भवति । तानि च योगस्थानानि सर्वाण्यपि श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणानि भवति । क्षयोपशमवैचित्र्यात्सर्वमवसेयं । ननु जीवानामनंतत्वात् प्रतिजीवं च योगस्थानस्य प्राप्यमाणत्वात् अनंतानि योगस्थानानि प्राप्नुवंतिः कथमुच्यते असंख्येयानि ? । उच्यते--यतः एकैकस्मिन् योगस्थाने सहशे सहशे वर्तमानाः स्थावरजीवा अनंताः प्राप्यंते, ततः सर्वजीवापेक्षयापि सर्वाणि योगस्थानानि केवलपरिज्ञया परिभाव्यमानानि असंख्येयान्येव प्राप्यते नाधिकानि, एकस्मिन् योगस्थाने एको जीवः जघन्यत एकं समयं उत्कृष्टत अष्टौ समयान् यावत्तिष्ठति । एवं योगस्थानतारतम्ये सर्वजीवेषु बाहुल्यं गाथाक्रमेण वक्तव्यं सुहुमनिगोआक्खणप्पजोग बायर विगलअमणमणा । अपज्जलहु पढमदुगुरु, पजस्सियरो असंखगुणो ॥ असमत्ततसुक्कोसो, पजहनियर एव ठिइठाणा ॥ इत्यष्टाविंशतिभेदाल्पबहुत्वं अवगंतव्यं । योगबाहुल्ये बहुकर्मग्राही, मंदत्वे अल्पपुद्गलग्राही इत्येवं या योगानां पुद्गलग्रहणरूपा प्रवृत्तिः तस्या रोधः मौनं उत्तमं, किं सतृष्णस्य बाह्ययोगरोधेन ? । तस्मात् सकलविमलज्ञानाद्यनंतगुणमहामाहात्म्यपरमात्मभावरसिकैः आत्मनो योगप्रवृत्तिपुद्गलानुगतयो रोधनीया इत्युपदेशः ॥ ७ ॥ ज्योतिर्मयीव दीपस्थ, क्रिया सर्वापि चिन्मयी। यस्यानन्यस्वभावस्य, तस्य मौनमनुत्तरम् ॥८॥ व्या० ज्योतिर्मयीवेति-तस्य-तत्वैकत्वपरिणतस्य मौनं योगनि १०३ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy