SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. २९३ त्तरा सुप्रावचनिका विद्या आवश्यकाचारांगादिलक्षणा, सापि ज्ञशरीरभव्यशरीरस्य तदभ्यासवतः अनुपयुक्तस्य द्रव्यविद्या, अथवाऽनुपयुक्तस्य हेयोपादेयपरीक्षाविकलस्य वाचनापृच्छनापरिवर्त्तनाधर्मकथारूपा, अनुप्रेक्षाविकलापि चेतनाविज्ञप्तिर्द्रव्यरूपा ज्ञेया, भावविद्या तु लोकोत्तरार्हत्प्रणीतागमरहस्याभ्यासवतः नित्या - नित्याद्यनंतपर्यायोपेतचिद्र पोपादेयबुद्धिः विभावाद्यनंतपरभावपरित्यागप्रज्ञप्तिलक्षणा, भावविद्याभ्यासस्यावसरः, तत्र मत्यादिज्ञानक्षयोपशमनिमित्ता इंद्रियादयः नैगमेन विद्या, सर्वजीवद्रव्याणि संग्रहेण, द्रव्यश्रुतं व्यवहारेण, ऋजुसूत्रेण वाचनादि, शब्दनयेन यथार्थोपयोगः, कारणकार्यादिसंकर रूपसविकल्पचेतना क्षायोपशमिकी साधनावस्था एवंभूतेन, साधका निर्विकल्पा तात्त्विकी । तथा - केचित् केवलज्ञानरूपसिद्धविद्या इति आद्यनयचतुष्टयस्य द्रव्यनिक्षेपांतर्गतत्वेन कारणरूपा गृहीता, अतो नयत्रयस्य भावरूपत्वेन कार्यरूपा उत्तरोत्तरसूक्ष्मा गृहीता, तत्र कारणोद्यमेन कार्याssवता भवितव्यं । नित्यशुच्यात्मताख्याति -रनित्याशुच्यनात्मसु । अविद्यातत्त्वधीर्विद्या, योगाचार्यैः प्रकीर्तिता ॥ १ ॥ नित्यशुच्येति - अनित्याशुच्यनात्मसु नित्यशुच्यात्मताख्यातिः अविद्या इत्यन्वयः, अनित्ये चेतनात् जातिभिन्नमूर्त्तपुद्गलग्रहणोत्पन्ने परसंयोगे या नित्यताख्यातिः सा अविद्या, अशुचिषु शरीरादिषु स्रवन्नवद्वाररंध्रेषु क्रुद्धस्वरूपावतरणनिमित्तेषु शुचिख्यातिः, अनात्मसु पुद्गलादिषु आत्मताख्यातिः 'अहं मन्ये' इति बुद्धिः 'इदं शरीरं मम अहमेवैतत् तस्य पुष्टौ पुष्टः' इति ख्याि कथनं ज्ञानं तत्र रमणं इयं अविद्या प्रतिबुद्धिः या तत्त्वबुद्धिः १०५ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy