SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. २२३ वस्तुतः केवलं ज्ञानं एवंभूतज्ञानं, अब मिथ्यादर्शनेऽपि विपर्यासोपेतं ज्ञानं कुज्ञानं, तत्र मोहत्यागहेतुः, अतः सम्यक् दर्शनपूर्वकस्वस्वरूपोपादेयापरभावहेयोपयोगलक्षणं सम्यग्ज्ञानं गृहीतं, तस्यैव संसारौदासीन्यहेतुत्वात् उक्तं चतज्ज्ञानमेव न भवति, यस्मिन्नुदिते विभाति रागगणः॥ तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्था तुम् ? ॥१॥ ___ अतो ज्ञानं तवावबोधरूपं आत्मनः स्वस्वभावाविष्करणहेतुः, मोक्षमार्गस्य मूलं 'ज्ञानक्रियाभ्यां मोक्षः' 'पढमं नाणं तओ दया, एवं चिट्ठह सबसंजए'। एवं स्वरूपं अत्रानुप्रेक्षायुक्तः स्पर्शज्ञानस्यावसरः तद् व्याख्यायतेमजत्यज्ञः किलाज्ञाने, विष्टायामिव शूकरः। ज्ञानी निमज्जति ज्ञाने, मराल इव मानसे ॥१॥ व्या०-मज्जत्यज्ञ, इति-अज्ञः स्वभावविभावाविवेकः किल इति सत्ये अज्ञाने अयथार्थोपयोगे मज्जति, मनो भवति, यथार्थावबोधविकलः अयथार्थे लीनो भवति, क इव ? विष्टायां शूकर इव, यथा शूकरो विष्टायां मज्जति तथा अज्ञः अभोग्ये आत्मगुणावरणकारणे परवस्तुनि शातादिविपाके इन्द्रियविषये मज्जति। ज्ञानी-यथार्थविबोधी ज्ञाने तत्त्वावबोधे आत्मस्वरूपे निमज्जति तन्मयो भवति । आत्मस्वरूपावबोधानुभवलीनाः शब्दादिविषयान् मनोज्ञान् इंद्रादिविस्मयहेतून् तृणयंति, रमंते स्वरूपे, भीष्म For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy