SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२२ ज्ञानमंजरी टीका. ॥ अथ पञ्चमं ज्ञानाष्टकम् ॥ मोहत्यागश्च ज्ञानाद् भवति, अतः ज्ञानष्टकं लिख्यते । तत्र ज्ञानलक्षणं, 'व्यवहाराव्यभिचाररूपं सर्वपदार्थावबोधरूपं सामान्यविशेषात्मनि पदार्थजाते विशेषबोधलक्षणं ज्ञानं, ज्ञायते अनेनेति ज्ञानं । उक्तं च उत्तराध्ययने । "एयं पञ्चविहं नाणं, दवाण य गुणाण य । पजवाणं च सव्वेसिं, नाणं नाणीहिं देसियं ॥” (अ० २८ । गा० ५) इति । आत्मनो विशेषलक्षणं नाम ज्ञानं शब्दालापरूपं, स्थापनाज्ञानं सिद्धचक्रादौ स्थापितं द्रव्यज्ञानं आगमगतज्ञानपदावबोधी अनुपयुक्तः, नोआगमतः द्रव्यज्ञानं अनुपयुक्तावस्था इति तत्त्वार्थे । तथा द्रव्यज्ञानं पुस्तकन्यस्तं । अथवा वाचना-पृच्छना-परिवर्तना-धर्मकथानुप्रेक्षादीनां द्रव्यज्ञानं, मावज्ञानमुपयोगपरिणतिः मत्यादिप्रकारं स्वपरविवेचकं परिच्छेदावलोकनाभासनादिपर्याय, तत्र नैगमेन ज्ञानं, भाषादिस्कंधज्ञानं । संग्रहेण सर्वजीवज्ञानं अभेदोपचारात्, व्यवहारेण पुस्तकादिज्ञानं, ऋजुसूत्रेण तत्परिणामसंकल्परूपं ज्ञानं, अथवा-ज्ञानहेतुवीर्य, नैगमेन संग्रहेण आत्मा व्यवहारेण क्षयोपशमीभूतज्ञानविभागप्रवृत्तिः, ऋजुसूत्रेण वर्तमानबोधः यथार्थायथार्थरूपमुभयज्ञानं, शब्दनयेन सम्यग्दर्शनपूर्वकयथार्थावबोघलक्षणं कारणकार्यसापेक्षं ज्ञानं स्वपरप्रकाशं स्याद्वादोपेतं अर्पितानर्पितादियुक्तं सम्यग्ज्ञानं, समभिरूढनयेन सकलज्ञानवचनपर्यायशक्तिप्रवृत्तिरूपं, एवंभूतनयेन मत्यादिस्वस्वरूपपूर्णवंभूतता For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy