________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञानमंजरी टीका.
२२१
किमुक्तं इदं मया नेदं सुखं अतः परसंभवे सुखे सुखाभासः निवारणीयो मोहमूलत्वात् , पौगलिके सुखे सुखम्रांतिरेव आभ्यंतरं मिथ्यात्वं इति ॥ ७॥ यश्चिदर्पणविन्यस्त-समस्ताचारचारुधीः । के नाम स्वपरद्रव्ये-ऽनुपयोगिनि मुह्यति ? ॥८॥
___व्या०-यश्चिदर्पण इति, यः पुरुषः आगमानुगताशयः चिद् ज्ञानं सर्वपदार्थपरिच्छेदकं तदेव दर्पणं आदर्शः तेन विन्यस्ताः स्थापिताः समस्ता ज्ञानाद्याचाराः तेन चारुः मनोहरा धीर्बुद्विर्यस्य स पुरुषः, नाम इति कोमलामंत्रणे परद्रव्ये पुद्गलादौ अनुपयोगिनि अकिंचित्करे कस्मिन्नपि कार्ये गृहीतुमयोग्ये व मुह्यति ? इत्यर्थः, यो ज्ञानादिपंचाचारेण संस्कारितोपयोगी आत्मानंदं ज्ञानदर्पणे पश्यन् परद्रव्ये कथं मुह्यति ? नैवेति । तत्त्वज्ञानविकलानां अनादिमिथ्यात्वाऽसंयमवतां स्वरूपानुभवशून्यानां एव परद्रव्यानुभवः । तत्र सुखम्नांतिरूपो मोहः । स्वभावधर्मनिरिभासनरमणानुभवसुखास्वादलीनानां न मोहः, अत आत्मस्वरूपैकत्वमेव मोहत्यागोपायः, अत एव अनादिम्रान्तिमपहाय आत्मानुभवरसिकतया भवितव्यम् । आत्मस्वरूपश्रद्धानभासनरमणानुभववता स्थातव्यं, इति तत्त्वं,आगमश्रवणकुसंगत्यागात् तत्त्वरुचि तत्त्वज्ञानबलेन संयोगजं सर्वमनित्यमशरणं संसारहेतु आत्मा एकः सर्वपदार्थातरं आत्मव्यतिरिक्तं परस्पर्श एवाशुचिपरानुयायिता एव आश्रवाः स्वरूपानुगमनं संवरः उदीरणके अममता इत्यादि परिणत्या मोहत्यागो विधेयः। इति चतुर्थ मोहत्यागाष्टकम् व्याख्यातम् ॥ ८॥
३३
For Private And Personal Use Only