SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२० ज्ञानमंजरी टीका. लोऽहं पञ्चेद्रियोऽहं जानाति पर शुक्र स्वीयं सच्चिदानन्दरूपं निर्मलं स्वरूपं नावबोधति इति मूर्खतापरिणतिः तत्त्वज्ञः खानिस्थवजं समलं. सावरणं समृदपि रत्नपरीक्षकवत् वज्रत्वेन अवधारयति, एवं ज्ञानावरणाद्यावृतं अतदाकारं ज्ञानज्योति, प्रकाशविकलमपि आत्मानं पूर्णानंदं सहजाप्रयासानंदसंदोहं सर्वज्ञं सर्वतत्त्वस्वरूपामिन्तं सम्यग्ज्ञानबलेन निर्धारयति इति, इत्यनेन आत्मा शुद्ध एव श्रद्धेयः, उपाधिदोषस्तु सन्नपि तादात्म्याऽभावात् संसर्गजत्वात् भिन्न एव निर्वाय इति ॥ ६॥ - मोहात् जीवः परवस्तु आत्मत्वेन जानन् आरोपजं सुखं सुखत्वेन अनुभवति, भेदज्ञानी तु आरोपजं सुखं दुःखमेवेति निवारणाय यत् तदुपदिशन्नाह-- अनारोपसुखं मोह-त्यागादनुभवन्नपि। आरोपप्रियलोकेषु, वक्तुमाश्चर्यवान् भवेत् ? ॥७॥ व्या०-अनारोपेति, अनारोपज सहजं सुखं स्वगुणज्ञाननिरपागभावरूपं सुखं मोहत्यागात् मोहक्षयोपशमात् अनु भवन्नपि भुंजन्नपि आरोपो मिथ्योपचारः प्रियो येषां ते आरोप प्रियाश्च ते लोकाश्च आरोपप्रियलोकाः तेषु आरोपसुखं वक्तुं आश्चर्यवान् भवेत् ? अत्र काकूक्तिः अपि तु न भवेत्, येन आरोपजं सुखं प्राप्तं स आरोपसुखे आश्चर्यवान् चमत्कारवान् भवति अथवा अनारोपसुखानुभवी आरोपप्रियलोकेषु अग्रे आरोपजं सुखं सुखं इति वक्तुं अपि आश्चर्यवान् भवति, वक्तुं न समर्थो भवति सुखाभावात् सुखकारणाभावात्तच्च वस्तुवृत्त्या दुःखरूपे सुखं इति लोकार्थ उक्तेऽपि स्वयं आश्चर्यवान् भवेत् For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy