________________
२१८
टिप्पनक-परागविवृतिसंवलिता वाडवदहनदाहवेदनावेगेन जलनिधिनाऽप्यसोढनौतत्रपरिवृढप्रयाणसंमर्दस्य समदसैन्यकरिविषाणकोणविघटितत्रिकूटकटकभित्तेरवस्कन्दपातभीतेनेव सर्वदा शरीषु विहितप्रचारेण नक्तञ्चरचक्रवर्तिना लकेश्वरेणापि सततमभिशङ्कितोत्साहस्य सिंहलद्वीपभर्तुमहानरेन्द्रस्य चन्द्रकेतोरात्मजः सर्वातिशायिना भुजवीर्यविलसितेनास्त्रशिक्षाकौशलेन च विस्मायितसकलपार्थिवः पार्थवत् पृथिव्यामेकधन्वी समरकेतुर्नाम [२] । सोऽयं महाबलतया बाल एवाधिगतयौवराज्याभिषेकः सकलसागरान्तरालद्वीपविजिगीषया गतोऽपि दूरमतिसत्वरः पितुराज्ञया राज्ञोऽस्य कुसुमशेखरस्य साहायकं कर्तुमासन्नवर्तिभिः कतिपयैरेव नृपतिभिरनुप्रयातः काश्चीमनुप्राप्तः । स्थितश्चात्र पञ्चषाण्यपि दिनानि दूनचेतोवृत्तिः, अद्य तु प्रातरेव हेतुना केनापि विधृतोदारशृङ्गारवेषः परि
प्राकारेण-दुर्गेण, खबाहुबलेनेत्यर्थः, रक्षिता-पालिता, निजक्षितिः-खभूमियेन तादृशस्य; पुनः जलनिधिनापि समुद्रेणापि, असोढनौतन्त्रपरिवृढप्रयाणसम्मर्दस्य असोढः-अकृतसहनः, नौतन्त्रस्य-नौकासाध्यस्य, परिवृढस्य-प्रधानभूतस्य, प्रयाणस्य-प्रस्थानस्य, सम्मदः-आक्रमणं यस्य तादृशस्य, समुद्रयात्रोपकरणसंपद्विशिष्टस्येत्यर्थः; कीदृशेन जलधिना? अवधीरितविषधरेन्द्रोग्रवदननिःश्वासविषवेगेन अवधीरितः-तिरस्कृतः, विषधरेन्द्रस्य-महासर्पस्य, खाधःस्थितशेषनागस्येत्यर्थः, उग्रो वदननिःश्वासविषवेगः-मुखनिःसूतपवनविषवेगो येन तादृशेनापि, पुनः अगणितकालकटज्वालाटोपेन अगणितःतुच्छत्वधियोपेक्षितः, कालकूटस्य-“देवासुररणे देवैईतस्य पृथुमालिनः। दैत्यस्य रुधिराज्जातस्तरश्वत्थसन्निभः ॥ निर्यासः कालकूटोऽस्य मुनिभिः परिकीर्तितः।" इत्यन्यत्रोक्तनिर्यासरूपविषविशेषस्य, ज्वालाटोपः-ज्वालातिशयो येन तादृशेनापि, पुनः अनपेक्षितरामविशिखशिखिशिखाडम्बरेण अनपेक्षितः-उपेक्षितः, रामस्य-दाशरथेः, विशिखशिखिनः-बाणरूपामेः, शिखाडम्बर:-ज्वालाविस्तारो येन तादृशेनापि, पुनः अविज्ञातवाडवदहनदाहवेदनावेगेन अविज्ञातः अननुभूतः, अवझातेति पाठे-अवज्ञातः-तिरस्कृतः, वाडवदहनस्य-वाडवाग्नेः, दाहवेदनायाः-तापजन्यदुःखस्य, आवेग:-औत्कटयं येन तादृशेनापि । पुनः कीदृशस्य चन्द्रकेतोः ? समदसैन्यकरिविषाणकोणविघटितत्रिकूटकटकभित्तेः समदाना-सगर्वाणाम् , सैन्यकरिणा-सेनासमवेतहस्तिनामू, विषाणकोणैः-दन्ताग्रभागः, विघटिता-विश्लेषिता, त्रिकूटस्य-लङ्कासन्निहितसुवेलाख्यगिरेः, कटकभित्तिः-नितम्बरूपभित्तिर्येन तादृशस्य; अत एव लङ्केश्वरेणापि रावणेनापि, सततम् अनवरतम् , अभिशडितोत्साहस्य अभिशद्वितः-आशङ्कितः, उत्साहः-संग्रामोत्साहो यस्य तादृशस्यः कीदृशेन । भीतेनेव अवस्कन्दः-सैन्यसन्निवेशस्थानम् , तस्य-तदुपलक्षितसैन्यस्य यः पातः-तत्कर्तृकमाक्रमणम् , तद्भीतेनेव, सर्वदा . सर्वस्मिन् दिने, शर्वरीषु रात्रिमध्य एव, विहितप्रचारेण कृतविहारेण, अत एव नक्तञ्चरचक्रवर्तिना रात्रिचराधिपेन, राक्षससम्राजेत्यर्थः, स्वाभाविकेऽपि तदीयरात्रिञ्चरत्वे हेतुविधया तद्भयोत्प्रेक्षाऽत्र बोध्या। कीदृशः समरकेतुः ? सर्वातिशायिना - सर्वोत्कृष्टेन, भुजवीर्यविलसितेन बाहुविक्रमविलासेन, च पुनः, अस्त्रशिक्षाकौशलेन अस्त्रविद्यानैपुण्येन, विस्मायितसकलपार्थिवः विस्मायिताः-आश्चर्यमनुभाविताः, सकलाः-समस्ताः. पार्थिवाः-राजानो येन तादृशः पुनः पार्थवत पार्थः-अर्जुनः, तद्वत् , पृथिव्यां जगति, एकधन्वी अद्वितीयधनुर्धरः [र] । सः अनुपदवर्णितविक्रमः, अयं पुरो दृश्यमानः कुमारः, महाबलतया अतिपराक्रमशालितया; बाल एव वाल्यावस्थ एव, अधिगतयौवराज्याभिषेका अधिगतः-प्राप्तः, यौवराज्याय यौवनावस्थोचितराजकार्यकरणाधिकारार्थ, अभिषेक:-विधिना स्नानं येन तादृशः सन् , सकलसागरान्तरालद्वीपविजिगीषया सकलाः-समस्ता ये, सागरान्तरालद्वीपाः-समुद्रमध्यस्थस्थलप्रदेशाः, तजि. गीषया-तजयेच्छया, दूरं दूरस्थानम् , गतोऽपि प्राप्तवानपि, पितुः जनकस्य, आशया आदेशेन, अस्य प्रत्यक्षभूतस्य, कुसुमशेखरस्य तत्संज्ञकस्य, राक्षः नृपस्य, साहायकं साहाय्यम् , कर्तुम् आचरितुम् , आसन्नवर्तिभिः, पाववर्तिभिः, कतिपयैः परिमितेः, नृपतिभिः राजभिः, अनुप्रयातः अनुसृतः, काञ्ची तदाख्यनगरीम् , अनुप्राप्तः आगतः । च पुनः, दूनचेतोवृत्तिः सन्तप्तमनोवृत्तिः, अत्र काञ्चीनगर्याम् , पञ्चपाण्यपि पञ्च वा षड् वेति पञ्चषाणि, तावन्त्यपि, दिनानि, स्थितः स्थितिम काषीत् । अद्य तु अस्मिन् दिने तु, प्रातरेव प्रभातकाल एव, केनापि केनचित्, हेतुना निमित्तेन, विधृतोदारशृङ्गारवेषः विकृतः-परिगृहीतः, उदार:-साटोपः, शृङ्गारवेषः-शृङ्गाररसानुगुणवेषो येन