________________
तिलकमञ्जरी।
२१९
मितैरेव सह सुहृद्भिर्नरेन्द्रभवनोद्यानभूषणं गतः स्मरायतनम् , आसीनश्च तस्य द्वारदेशे विशन्तमनवरतमन्तरुपरतनिमेषेण चक्षुषा निरीक्षमाणो नगरनारीजनं स्थितो दिनमशेषम् [ल], अवसितायां च यात्रायामधिकतरमारूढगाढारतिः कारयित्वा मकरकेतोः पुरः सरोजिनीपत्रशयनम् , 'इहैव मयाद्य शयनीयम्' इत्युदीर्य विसर्जितासन्नपरिजनः केनापि विधिनातिवाह्य प्रदोषमागत्य चार्धरात्रसमये शिविरमकस्मादेव सज्जीकृतसकलनिजबलः, 'कुमार! नायं क्रमो नयस्य' इति विनिवार्यमाणोऽपि मत्रिभिः, 'युवराज ! विरम्यतामितो दुरध्यवसायात्' इति निरुध्यमानोऽपि बन्धुभिः, 'कल्याणिन् ! अङ्गीक्रियतां यात्रालग्नम्' इति निवर्त्यमानोऽपि मौहूर्तिकैः, 'देव ! प्रतिपाल्यतामनुपाति सैन्यम्' इति विज्ञाप्यमानोऽपि प्रधानलोकेन, 'विद्वन् ! निवेद्यतां कुसुमशेखरस्य' इति वारं वारमभिधीयमानोऽपि विबुधवर्गेण, निर्गतः काश्या आकृष्यमाणश्च व्यसनैषिणा पुरो विधिना प्रणिधिनेवानाप्तेन प्राप्तो भुवमिमामवस्थां च [व]। इत्येत्रमावेदयन्यामेव तस्यामुपजातदुःखावेगेव प्रगलिततारका तनिमानमभजत रजनिः, अमरीभूतसुभटनिर्दयाश्लिष्टसुरवधूहारमुक्तमौक्तिक
तादृशः सन्, परिमितैरेव परिगणितैरेव, सुहृद्भिः मित्रः सह, नरेन्द्रभवनोद्यानभूषण राजप्रासादनिकटस्थितारामालङ्करणभूतम् , स्मरायतनं कामदेवमन्दिरम् , गतः प्राप्तः। च पुनः, तस्य कामदेवमन्दिरस्य, द्वारदेशे अन्तःप्रवेशप्रदेशे, आसीनः उपविशन्, उपरतनिमेषेण निवृत्तस्पन्दनेन, चक्षुषा, अनवरतं निरन्तरम् , अन्तःविशन्तम् अन्तः प्रवेशं कुर्वन्तम् , नगरनारीजनं नागरिकस्त्रीजनम् , निरीक्षमाणः अवलोकमानः, अशेष समस्तं, दिनम् , स्थितः स्थितिमकार्षीत् [ ल] । यात्रायां कामदेवमन्दिरयात्रोत्सवे, अवसितायां समाप्तायाम् , अधिकतरम् अत्यधिक यथा स्यात् तथा, आरूढगाढारतिः आरूढाः-उत्पन्ना, गाढा-सान्द्रा, अरतिः-खेदो यस्य तादृशः, मकरकेतोः कामदेवस्य, पुरः अग्रे, सरोजिनीपत्रशयनं कमलिनीपत्रमयीं शय्याम् , कारयित्वा निर्माप्य, अद्य अस्मिन् दिने, मया, इहैव अस्यामेव शय्यायाम् , शयनीयं शयनं कर्त्तव्यम् , इत्युदीर्य इत्युक्त्वा, विसर्जितासनपरिजनः दूरीकृतपार्श्ववर्तिपरिवारः सन् , केनापि अनिर्वाच्येन दुःखमयेनेत्यर्थः, विधिना प्रकारेण, प्रदोषं तद्रात्रिप्रथमभागम् , अतिवाह्य व्यतीत्य अर्धराघसमये रात्रिमध्यभागे, शिबिरं सैन्यसभिवेशस्थानम् , आगत्य, अकस्मादेव अकृतपूर्वविचारमेव, सजीकृतसकल निजबलः सज्जीकृत--सज्जितम् , सकलं-समस्तम् , निजबलं-सैन्यं येन तादृशः, कुमार! भो नृपकुमार !, नयस्य नीतेः, अयं रात्रौ युद्धारम्भरूपः, क्रमः विधिः, न, इति एवम् , मन्त्रिमिः सन्चिवैः, विनिवार्यमाणोऽपि गमनानिवय॑मानोऽपि, पुनः युवराज !, इतः अस्मात् , दुरध्यवसायात् असमीचीनोद्योगात् , विरम्यतां त्वया निवृत्यताम् . इति एवम् , बन्धुभिः श्रात्रादिभिः, निरुध्यमानोऽपि निवार्यमाणोऽपि, पुनः कल्याणिन् ! कल्याणशालिन् !, यात्रालग्नं युद्धार्थ प्रस्थाने शुभजनको राशीनामुदयः, अङ्गीक्रियतां पर्यालोच्यताम् , तत्पर्यालोचनं विना न गभ्यतामित्यर्थः, इति एवम् , मौहूर्तिकः मुहूर्तः, निवर्त्यमानोऽपि अवरुध्यमानोऽपि, पुनः देव ! राजन् !, अनुपाति खानुगामि, सैन्य सेना, प्रतिपाल्यतां प्रतीक्ष्यताम्, इति एवम् , प्रधानलोकेन प्रधानजनेन, विज्ञाप्यमानोऽपि निवेद्यमानोऽपि, पुनः विद्वन् ! विवेकशालिन् !, कुसुमशेखरस्य तत्संज्ञकस्य राज्ञः, निवेद्यतां विज्ञाप्यताम् , सर्वमुक्तपूर्वमिति शेषः, इति एवम् , विबुधवर्गेण विज्ञवर्गेण, अभिधीयमानोऽपि उच्यमानोऽपि, काश्याः तन्नान्या नगर्याः, निर्गतः निष्कान्तः। च पुनः, अनाप्तेन अविश्वस्तेन, प्रणिधिनेव चरजनेनेव, व्यसनैषिणा दुःखाभिलाषिणा, विधिना देवेन, पुरः अग्रे, आकृष्यमाणः बलादुपनीयमानः, इमां, भुवं भूमिम् , अवस्थां दुर्दशां च प्राप्तः [व] 1 इति इत्थम् , तस्यां वालिकायाम् , आवेदयन्त्यामेव कथयन्त्यामेव सत्याम् , उपजातदुःखावेगेव उत्पन्नवेदनातिशयेव, अंगलिततारका नष्टतारका, स्जनिः प्रकृतरात्रिः, तनिमानं कायम् . शेषावस्थामित्यर्थः अमजत प्राप्तवती । पुनः गगनतलम् आकाशतलं कर्तु, अमरीभूतसुभटनिर्दयाश्लिष्टसुरवधूहारमुक्तमौक्ति कविसरमिव अमरीभूतैः-युद्धे मृत्वा अमरतामापनैः, सुभटैःसुयोधैः, निर्दयं-गाढं यथा स्यात् तथा, आश्लिष्टानाम्-आलिङ्गितानाम् , सुरवधूना-देवानानाम् , हारेभ्यः-मुक्तामाल्येभ्यः,