________________
अर्थप्रकाशवृषिसहित वर्तमानविवालिशितं वस्त्विति । कथम् ? 'केवलश्रिया' केवल ज्ञानलक्ष्म्या। किंवत् ? 'करामलकवत् करे खितमामलकं-आमलक्याः फलं तद्वत् , यथा हि करतलगतामलकमाकलयति तथा सकलकालकलाकलापव्यापिपदार्थसाथै भगवान् विमलकेवलालोकलयम्या विलोकत इति । एतावता देशकालखभावविप्रकृष्ट अपि पदार्था भगवतः करामलकवत् प्रतिमासन्त इति भावः ॥ ११ ॥
सत्त्वानां परमानन्दकन्दोद्धेदनवाम्बुदः।
स्थाद्वादामृतनिःस्यन्दी, शीतलः पातु वो जिनः ॥१२॥ .. सत्त्वानामित्यादि । शीतलो जिनः शीतलनामा तीर्थकृत् , 'व:' युष्मान् पातु' रक्षतु, भवाम्बुधौ पतत इत्यध्याहारः । किंलक्षणः शीतलः ? 'परमानन्दकन्दोद्भेदनवाम्बुदः' परमश्चासौ आनन्दश्च परमानन्दः स एव कन्दः तस्योद्भेदस्तत्र नवाम्बुदः, निस्तुषसुखमूलविशेषसंसिद्धिनूतनजलधरः, यद्वा परमानन्दस्य-परमसुखस्य कन्दःकारणं सम्यग्ज्ञानादिः तस्योद्भेदे-प्रकटने नवाम्बुदः-सद्यस्कवारिवाहः इत्यपि समाव्यते । केषाम् ? 'सत्त्वानाम्' प्राणिनाम् । पुनः किंलक्षणः शीतलः ! 'साद्वादामृतनिःस्सन्दी' स्याद्वादः-अनेकान्तवादः स एव मोहमहाविषविनाशकत्वेनामृतमिवामृतं-पीयूषं तस्य निःस्यन्दःसवणं स्याद्वादामृतनिःसन्दः सोऽस्यास्तीति तथा । पुनः किंलक्षणः शीतलः ! 'जिन' केवली ॥१२॥
१ "पदैकदेशे पदसमुदायोपचारादू" इति न्यावात् केवळशब्देन केवलशालमुच्यते। २ करे-हस्ते अमलं-निर्मलं यत् कं-जलं तद्वद, इत्येवमपि बलिद व्याख्यायन्ति । ३ "स्पन्दौर प्रस्रवणे" इति धातुः वादिरात्मनेपरी।