________________
सकळाईत्वोत्रम् । सहगगनाभोगभाखते' चत्वारो वर्णमेदाः-साधुसाध्वीश्रावक श्राविकारूपा यस्य स चतुर्वर्णः, चतुर्वर्णश्चासौ सङ्घश्व चतुर्वर्णसङ्कः, गगनस्य वियतः आभोगः-विस्तारः गगनाभोगः, स एव गगनाभोगः चतुर्वर्णसङ्घगगनाभोगः तत्र भाखान-सूर्यस्तस्मै चतुर्वर्णसागगनामोगमाखते । यथा हि भाखता गगनमण्डलं तमःखोमतिरस्कारपुरस्कार प्रकाश्यते तथा भगवतापि चतुर्वर्णसङ्घ, प्रबलमोहान्धतमसध्वंसपुरःसरं तत्त्वज्ञानप्रकाशालवृतः क्रियत इति ॥९॥
चन्द्रप्रभप्रमोश्चन्द्रमरीचिनिचयोज्ज्वला ।
मूर्तिमूर्तसितध्याननिर्मितेव श्रियेऽस्तु वः॥१०॥ - चन्द्रप्रमेत्यादि। चन्द्रप्रभप्रभोरष्टमतीर्थकृतः 'मूर्तिः' तनुः 'व:' सुष्माकं 'श्रिये' लक्ष्म्यै 'अस्तु' स्थादित्यर्थः । किंलक्षणा मूर्तिः ! 'चन्द्रमरीचिनिचयोज्ज्वला' चन्द्रस्य मरीचय:-कान्तयस्तासां निचयो राशिः तद्वदुज्वला-शशधरकरनिकरघवलेत्यर्थः । 'इव' उत्प्रेक्ष्यते । 'मूर्तसितध्याननिर्मिता' सितं च तत् ध्यानं च सितध्यान-शुक्रध्यानं, मूतं च तत् सितध्यानं च मूर्तसितध्यानं, तेन निर्मिता घटिता मूर्तिमता शुक्लध्यानेन विहिता इव उप्रेक्षायामिति ॥१०॥ . करामलकवद् विश्वं, कलयन् केवलश्रिया ।
अचिन्त्यमाहात्म्यनिधिः, सुविधिर्वाधयेऽस्तु वः ॥११॥
करामलकवादित्यादि । सुविधिर्नवमस्तीर्थपतिः 'व:' युष्माकं बोषये तत्त्वज्ञानाय 'अस्तु' भवतु इत्यन्वयः। किंलक्षणः सुविधिः! 'भचिन्त्यमाहात्म्यनिधि:' अचिन्त्यं माहात्म्यं-महिमा तस्य निविरक्षयसानमित्यर्थः । सुविधिः किं कुर्वन् ! 'कल्यन्' जानन्, किम् ? 'विश्वं सचराचरं जगदित्यर्थः । यद्वा विश्वंसकलं अतीतानागत