________________
सकलाईत्स्तोत्रम् । भवरोगाऽऽर्तजन्तूनामगदवारदर्शनः । निःश्रेयसश्रीरमणः, श्रेयांसः श्रेयसेऽस्तु वः ॥१३॥ भवेत्यादि । श्रेयांसः एकादशो जिनः 'वः' युष्माकं श्रेयसे' शिवाय 'अस्तु' स्तादिति सम्बन्धः । जन्मादिक्लेशवैकल्यव्यपोहस्य च तसिद्धौ सिद्धत्वात् । केशविध्वंसपूर्वकत्वादेव श्रेयःसंसिद्धेः सांसारिकश्रेयसः प्रार्थनायाः प्रेक्षावतामनुचितत्वात् । किंलक्षणः श्रेयांसः ? 'अगदकारदर्शनः' अगदारो वैद्यः तद्भूतं रोगहारि वा दर्शनं यस्य स तथा। केषाम् ? 'भवरोगाऽऽर्तजन्तूनां भवः चतुर्गतिकसंसारः स एव कारणे कार्योपचारात् रोगस्तेनार्ताः-पीडिताः तिर्यमरनारकादिदुःखव्याकुला ये जन्तवः-प्राणिनस्तेषां, यद्वा भवस्य रोगाः क्रोधादयस्तत्पीडितजन्तुनामित्यर्थः । यदि वा भवे-चतुर्गतिकरूपे संसारे रोगा ज्वरादयस्तैरात ये जन्तवस्तेषामित्यर्थः । रोगस्य सर्वस्यापि सांसारिकत्वेन जन्यजनकसम्बन्धेन वा आधाराधेयभावसम्बन्धेन वानिरूपणं न दोषायेति मन्तव्यम् । यथा हि वैद्यवरेणाशु चिरन्तना अपि रोगाः प्रणश्यन्त एवं भगवदर्शनमात्रेणापि जन्तूनां भवरोगाः प्रलीयन्त इति हार्दम् । पुनः किंलक्षणः श्रेयांसः? 'निःश्रेयसश्रीरमणः' निःश्रेयसं मोक्षस्तदेव श्रीलक्ष्मीस्तस्या रमण:पतिः सिद्धिलक्ष्मीपतिरित्यर्थः ॥ १३ ॥
विश्वोपकारकीभूततीर्थकृत्कर्मनिर्मितिः ।
सुराऽ-सुर-नरैः पूज्यो, वासुपूज्यः पुनातु वः ॥१४॥ विश्वोपकारकीत्यादि । वासुपूज्यो द्वादशस्तीर्थकरः 'व' युष्मान् ‘पुनातु' पवित्रीकरोतु । किंलक्षणो वासुपूज्यः ?, 'विश्वोपकारकीभूततीर्थकृत्कर्मनिर्मितिः' विश्वस्य -उपकारकं विश्वोफ