________________
अर्थप्रकाशवृचिसहितं
विषभक्तिश्रद्धातिशयभर भृतस्तथाप्रणमन्ति यथा भगवत्पादपद्मनस्वास्तदीयमुकुटतटकोटिभिः संघव्यन्त इति तात्पर्यमिति ॥ ७ ॥
पद्मप्रभप्रभोर्देहभासः पुष्णन्तु वः शिवम् |
अन्तरङ्गारिमथने, कोपाटोपादिवारुणाः ॥ ८ ॥ पद्मप्रभेत्यादि । पद्मप्रभप्रभोः षष्ठतीर्थकृतो 'देहभासः' कार्य कान्तयः 'वः' युष्माकं 'शिवं' कल्याणं 'पुष्णन्तु' पोषयन्तु । पद्मप्रभश्वासौ प्रभुश्च पद्मप्रभप्रभुः तस्य पद्मप्रभप्रभोः, देहस्य भासः देहभासः । किंलक्षणा देहभासः ? 'अरुणाः' शोणाः 'इव' उत्प्रेक्ष्यंते । 'कोपाटोपादिवारणा' कोपस्य क्रोधस्य आटोपः-संभारः कोपाटोपः, तस्मात्को पाटोपात् । कुत्र ? 'अन्तरङ्गारिमथने' अन्तरङ्गाश्च ते अरयश्चान्तरङ्गारयस्तेषां मथनं हननं, तत्र अन्तरङ्गारयः कर्मण्येव । यथा कश्चिद् वैरिवारं जिघांसुः कोपावेशान्नयनादिषु रक्तिमानं दधानः स्यादेवं भगवद्देहभासोपि भाववैरिहनने रक्ता इवेत्युत्प्रेक्षा ॥ ८ ॥
श्रीसुपार्श्वजिनेन्द्राय, महेन्द्रमहितांइये । 'नमचतुर्वर्णसङ्घगगनाभोगभावते ॥ ९ ॥
श्री सुपार्श्वत्यादि । श्रीसुपार्श्व जिनेन्द्राय नमः, स्यादिति शेषः नमस्कारो भवत्वित्यर्थः । कम्थभूताय श्रीसुपार्श्वजिनेन्द्राय ! 'महेन्द्रमहितांद्रये महान्तश्च ते इन्द्राश्च महेन्द्राः, महेन्द्रैर्महितावांही यस्य सः महेन्द्रमहितांहि तस्मै महेन्द्रमहितांड्रये - महावासवपूजितचरणायेत्यर्थः । पुनः किंलक्षणाय श्रीसुपार्श्वजिनेन्द्राय ? 'चतुर्वर्ण
१ " यत्रान्यत् क्रियापदं न श्रूयते तत्रास्ति भवतीत्यादिकं प्रयुज्यते” इति
न्यायात् ।