________________
सकलाई स्तोत्रम् |
नित्यत्वसामान्यविशेषादयः परस्परसमानाधिकरणा धर्माः प्रतिपाद्यतया यत्र तत् अनेकान्तं तच्च तन्मतं चानेकान्तमतं स्याद्वादमतमित्यर्थः । तदेव दुःशकावगाहत्वेनाम्भोधिरिवाम्भोधिः - समुद्रः तस्य समुल्लासनं-उत्कल्लोलीकरणं तत्र चन्द्रमाः -सुधादीधितिः । यथा चन्द्रमसा जलनिधिः समुच्छलद्बहलकल्लोलमालोत्कर्षमानीयते तथा भगवतानेकान्तमतं विस्फूर्तिकोटिमानीयत इति । अत्र च "विधिनि-' मन्त्रणामत्रणाचीष्टसंप्रश्नप्रार्थने" (५-४-२८) इति सिद्धहेमचन्द्र - सूत्रेण अधीष्टार्थे दद्यादिति सप्तमी न दोषभाक् । यतः प्रेरणैव सत्कारपूर्विका अधीष्टमुच्यत इति । दद्यादिति पदं ददातु इति प्रेरणार्थाभिव्यंजकविभक्त्यन्तपदपर्यायत्वेन व्याख्येयमिति ॥ ६ ॥
६
घुसत्किरीटशाणाग्रोचेजितांहिनखावलिः ।
भगवान् सुमतिस्वामी, तनोत्वभिमतानि वः ॥ ७ ॥ घुसत्किरीटेत्यादि । सुमतिखामी भगवान् पंचमः खयम्भूः 'वः' युष्माकं 'अभिमतानि' अमीष्टानि निरतिशयसुखानि 'तनोतु '' करोतु इत्यर्थः । " जीवा सुहेसिणो इति वचनात् " तेषामेव परमार्थतोऽभिमतत्वादिति । कथम्भूतः सुमतिखामी ! ' घुसत्किरीटशाणाम्रोत्तेजितांड्रिनखावलिः' घुसदो देवास्तेषां किरीटानि - मुकुटानि घुसत्कि - टानि, तान्येव शाणा :- शस्त्रादिसमुत्तेजनफलाः कषोपलाः तेषामग्राणि - कोट्यः द्युसत्किरीटशाणाग्राणि, नखानामावलिर्नखावलिः, अंड्रयोः क्रमयोर्नखावलिः अंड्रिनखावलिः, अंड्रयोर्नखास्तेषामावलिरिति वा घुस त्किरीटशाणाग्रैरुत्तेजिता - दीप्तिमतां नीता अंह्निनखावलिर्यस्य सः घुसत्किरीटशाणामोत्तेजितांह्रिनखावलिः । एतावता स्वर्गिणस्तथा