________________
अर्थप्रकाशवृत्तिसहितं
खैर्नामाकृतिद्रव्यभावैः । नाम ऋषभादिरूपं, आकृतिश्व जिनप्रतिमा, द्रव्यं च जिनजीवः - भविष्यत्तीर्थ कृज्जीवरूपः, भावश्व समवसरणालस्थितजिनरूपः, एभिश्चतुर्भिः प्रकारैरित्यर्थः । कस्मिन् क्षेत्रे ? महाविदेहादिरूपे । 'च' पुनः कस्मिन् काले ? अवसर्पिण्यादिरूपे । किंलक्षणे ? 'सर्वस्मिनू' सकले इति द्वयोर्विशेषणम् । सर्वस्मिन्नपि क्षेत्रे सर्वस्मिन्नपि काले सर्वत्र सदा इत्यर्थः । यत्रापि च क्षेत्रादौ साक्षाद्वर्तमानतीर्थकृतां व्यतिरेकः तत्रापि नामादित्रितयस्य सर्वदा सद्भावेन सार्वत्रिकं सार्वदिकं च त्रिजगज्जनपवित्रीकरणमईतामविरुद्धमेवेति ॥ २ ॥
आदिमं पृथिवीनाथमादिमं निष्परिग्रहम् । आदिमं तीर्थनाथं च, ऋषभखामिनं स्तुमः ॥ ३ ॥ आदिमं पृथिवीत्यादि । वयं ऋषभखामिनं - श्रीऋषभप्रभुं " स्तुमः" "टुंग्क् स्तुतौ” स्तुतिगोचरीकुर्मः । किंविशिष्टं ऋषभखामिनम् ? ' पृथिवीनाथं' पृथिव्याः भूमेर्नाथः खामी पृथिवीनाथः तं पृथिवीनाथं - राजानमित्यर्थः । किंलक्षणं पृथिवीनाथम् ? 'आदिमं' प्रथमम् । पुनः किंविशिष्टं ऋषभखामिनम् ? 'निष्परिग्रह' निर्गतः परिग्रहात् - बाह्याभ्यन्तरभेदभिन्नात् इति निष्परिग्रहस्तं निष्परिग्रहंनिर्ग्रन्थम् । कथम्भूतं निष्परिग्रहम् ? 'आदिमं प्रथमम् । पुनः किंविशिष्टं ऋषभखामिनम् ? 'तीर्थनाथं' तीर्थस्य चतुर्वर्णस्य संघस्य नाथं- खामिनम् । किंविशिष्टं तीर्थनाथम् ? 'आदिमं' प्रथमं तथा चार्ष "पढमरायेति वा पढमभिक्खायरेति वा पढमजिणेति वा" इति ॥३॥
१ नामजिणा जिणनामा, ठवणजिणा पुण जिनिंदपडिमाओ । दव्वजिणा झिणजीवा, भावजिणा समवसरणत्था ॥ १ ॥ इति भाष्ये ।