________________
सकलाईत्स्तोत्रम् ।
श्री:- केवलज्ञानरूपा विभूतिः तस्याः । पुनः किंविशिष्टमार्हन्त्यम् ? 'भूर्भुवःस्वस्त्रयीशानं' भूश्च भुवश्च खश्च भूर्भुवःखः । अत्र अव्ययत्वेन जसो लुक् । तेषां त्रयी तस्या ईशानं प्रभुभूतम् । धर्मिणि कथंचित् तादात्म्येन वर्तमानत्वात्तद्रूपे धर्मे तद्धर्मिणः सत्त्वं नायुक्तमिति प्रमाणविदः । भूः-रसातलं-पाताललोकः, भुवः- मर्त्यलोकः, खः - खर्गिलोकः, तेषां पतिमित्यर्थः । अत्राद्यन्तयोर्भूखरशब्दयोः पातालना किलोकवाचकयोः सान्निध्यात्तदन्तरालवर्तिभुवः शब्दस्य मर्त्यलोकवाचकत्वं अनन्यगतिकत्वेन नायुक्तम् । अत्र च आर्हन्त्यमिति पदम्, "अर्हतस्तोन्त्” चेति सूत्रेण भावे कर्मणि वा व्यण्प्रत्यये अर्हतो भाव आर्हन्त्यमिति तस्य न्त् इत्यादेशे सिद्धमिति बोध्यम् ॥ १ ॥ नामाऽऽकृतिद्रव्यभावैः पुनतत्रिजगञ्जनम् ।
क्षेत्रे काले च सर्वस्मिन्नर्हतः समुपास्महे ॥ २ ॥ नामेत्यादि । वयमर्हतः तीर्थकरान् 'समुपास्महे' भक्तिश्रद्धातिशयपूर्वकं सेवामहे । किं कुर्वतः अर्हतः ! 'पुनतः' पवित्रीकुर्वतः । कम् ? 'त्रिजगज्जनं' त्रयाणां जगतां समाहारः त्रिजगत् तस्य जनो लोकः-सुरासुरनरादिरूपः तं त्रिजगज्जनम् । कैः कृत्वा ? ' नामाकृति - द्रव्यभावैः' नाम च आकृतिश्च द्रव्यं च भावश्व नामाकृतिद्रव्यभावा
१ "भू सत्तायाम्" इत्यतः " मिथिरज्युषि तू शू-भू-वष्टिभ्यः कित्" (उ० ९७१ ) इत्यसि उवादेशे पृषोदरादित्वादकारलोपे च भूस् भुवस् मथाक्रमं नाग- मनुष्यलोकवाचकाविति “खरादयोऽव्ययम्” इति सिद्धम. १-१-३० सूत्र बृहन्न्यासे ।
२ सिद्धहेमबृहत्प्रक्रिया. ७-१-६२. अर्हत्शब्दात् षष्ठ्यन्ताद् भावे कर्मणि चार्थे व्यण् प्रत्ययः स्यात् तत्संनियोगे च तकारस्य न्त् इत्यादेशो भवति । अरिननात् रजोहन नातू रहस्याभावाच्च अर्हन् पृषोदरादित्वात् ।