________________
सकलाईत्तोत्रम् । अर्हन्तमजितं विश्वकमलाकरभास्करम् ।
अम्लानकेवलादर्शसान्तजगतं स्तुवे ॥४॥ अर्हन्तमित्यादि । अहं 'अर्हन्तं' तीर्थकरं 'स्तुवे ईडे । किं. विशिष्टमहन्तम् ! 'अजितं' अजितनामानमित्यर्थः। किंविशिष्टमजितम् ? 'विश्वकमलाकरभास्करं' कमलानां पद्मानां आकरःसनिः कमलाकरः । विश्वमेव-जगदेव कमलाकरः विश्वकमलाकरः विश्वकमलाकरे भास्करः-सूर्यः तदुद्बोधनिबन्धनतया विश्वकमलाकर भास्कर सं विश्वकमलाकरमास्करम् । पुनः किंविशिष्टमजितम् । 'अम्लानकेवलादर्शसङ्कान्तजगतं' केवलमेवादर्शो दर्पणः केवलादर्शः न म्लानः अम्लान:-निर्मलः, अम्लानश्चासौ केवलादर्शश्च अम्लानकेवलादर्शः, तत्र सक्रान्तं ज्ञेयतया प्रतिबिम्बितं जगद् यस स अम्लानकेवलादर्शसान्तजगत् तं अम्लानकेवलादर्शसान्तजगतं, विमलकेवलालोकाकलितनिखिलपदार्थसार्थमित्यर्थः । अत्र च प्रथमविशेषणेन वचनातिशयो द्वितीयविशेषणेन ज्ञानातिशयश्च प्रतिपादितोऽवगन्तव्यः । शेषातिशयद्वयं च तदव्यभिचारित्वेन प्रतिपादितमेवावबोध्यमिति मूलातिशयचतुष्टयसम्पत्तिरुक्ता । यद्वा न जितो रागादिभिरित्यजित इति शब्दव्युत्पत्त्यैवापायापगमातिशयः । अर्हति त्रिभुवनकृतां पूजामित्यर्हन् इति व्युत्पत्त्या पूजातिशयश्च प्रतिपादितः, शेषातिशयद्वयं च विशेषणद्वयेन स्पष्टमेवोक्तमित्येवमपि वदतिशयचतुष्टयीसम्पदुक्तेति चिन्त्यम् ॥ ४ ॥
विश्वमव्यजनारामकुल्यातुल्या जयन्ति ताः।
देशनासमये वाचः, श्रीसंभवजगत्पतेः ॥५॥ विश्वेत्यादि । 'श्रीसंभवजगत्पतेः' जगतां पतिर्जगत्पतिस्तीर्थकर: