________________
'टीकासहितं ।
जीविकामात्रतंत्राणां विचारयतामपि हा ! कष्टं प्रकृष्टः यातः संसारसमुद्रावर्त्तपतनलक्षणः संजात इति सूरयः करुयाविषयत्वं दर्शितवन्तः ।
दीक्षात एव मुक्तिरिति मन्यमानान्मंत्रिणः प्रत्याहु:-- स्वच्छन्दवृत्तेर्जगतः स्वभावादुच्चैरनाचारपथेष्वदोषम् । निर्घुष्य दीक्षासममुक्तिमानास्त्वद्दृष्टिवाद्यावत विभ्रमंति ॥ ३७ ॥ टीका - हिंसाऽनृतस्ते याब्रह्मपरिग्रहा उच्चैरनाचारपथा: पंच महापातकानि तेष्वनुष्ठीयमानेष्वप्यदोषं निर्घोषयन्ति केचित्, स्वभावत एव जगतः स्वच्छन्देन वृत्तेरित्युपपत्तिमाचक्षते । तथा हि- जगतोऽनाचारपथा महान्तोऽपि न दोषहेतवः स्वभावतो यथेच्छं वर्त्तमानत्वात् प्रसिद्धजीवन्मुक्तवदिति निर्घुध् दीक्षा समकालां मुक्तिं मन्यन्ते । दीक्षया समा समकाला दीक्षासमासा चासौ मुक्तिश्च सा दीक्षासम मुक्तिस्तस्यां मानोऽभिमानो येषां ते दीक्षासममुक्तिमाना इनि पदघटना । ते चत्त्रद्दष्टे मोक्ष तत्कारण निश्चय निबंधनस्याद्वाददर्शनात् वाह्या: सर्वथैकांतवादित्वात् विभ्रमत्येव केवलं वत कष्टं, पुनस्तत्त्वनिश्रय नासादयन्तीत्यर्थः । दीक्षा हि मंत्रविशेषारोपणमुपसन्नमनसीब्यते सा च यदि यमनियमसंहिता तदा त्वद्दष्टिरेवेति भगदर्शनादवाया एवं दीक्षावादिनस्तथा तत्त्वविनिश्वयमाप्तेः १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org