________________
युक्त्यनुशासनं । अथ यमनियमरहिता दीक्षा कक्षीक्रियते तदा न सा दोषविपक्षभूताऽनाचारप्रतिपक्षभूता वा यतोऽनाचारक्षयकारिणी स्यात्, नचानाचारक्षयकारणमन्तरेण दीक्षासमकालमेव मुक्तियुक्तियवतरत्यतिप्रसंगात् । स्यान्मतिरेषा भवतां समर्था दीक्षोच्चैरनाचारपथमथनपटीयसी न पुनरसमर्था यतो दीक्षासमये एवाऽनाचारनिराकरणमुपसन्नजनानामनुषज्यत इति साऽपि न श्रेयसी दीक्षायाः सामर्थेऽपि तत्समकालं मुक्त्यनवलोकनात् । तथा हि-सामर्थ्य दीक्षायाः स्वभावभूतमर्थान्तरभूतं वा ?,स्वभावभूतं चेत्, कथं कदाचित् कचित् कस्याश्चिदेव स्यात् । दीक्षातोऽर्थान्तरभूतं सामर्थ्य मिति चेत् तरिक कालविशेषरूपं देशविशेषरूपं. दक्षिणादिविशेषरूपं या ? कालविशेषरूपं चेत् , न, तिथिवारनक्षत्रवेलादिकालविशेषस्याविशेषेऽपि कस्यचिदीक्षासमकाले मुक्त्यदर्शनात् । क्षेत्रविशेषसामर्थ्यमिति चेत् , न तीर्थस्नानदेवतालयमंडलादिविशेषसाम्येऽपि कस्याचिन्मुक्त्यभावात् । दक्षिणादिवि. शेषरूपं सामर्थ्यमिति चेत्, न, गुरुदक्षिणायां यथोक्तायां सत्यामपि विनयप्रणमननमस्कारात्मसमर्पणसद्भावेऽपि चो
चैरनाचारपथप्रवृत्तिदर्शनात् । सकला सामग्री श्रद्धाविशेषोपगृहीतद्रव्यगुणकर्मलक्षणानिवर्तकधर्मविशेषजनिकादीक्षाया, सामर्थ्यमिति चेत्, कः पुनः श्रद्धाविशेषो नाम ? हेये जिहासा सन्धदुपादेये चोपादित्सा श्रद्धाविशेष इति चेत्, तर्हि हेयं दुःखमनारतं तत्कारणं च मिथ्यादर्शनं रागादिदोषश्चति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org