________________
युक्त्यनुशासनं। गस्य दुर्निवारत्वात् । यदि पुनः सहक रिकारणं भूतसमुदयश्चैतन्योत्पत्तौ प्रतिपाद्यते तदोपादानकारणमन्यद्वाच्यं, निरुपादानस्य कस्यचित्कार्यस्यानुपलब्धेः । शब्दविद्युत्नदीपादियन्निरुपादानं चैतन्यमिति चेत् , न, तस्यापि स्वोपादानत्वसिद्धेः । तथा हि स्वोपादानकारणपूर्वकः शब्दादिः कार्यवा. स्पटादिवत् । किं पुनस्तस्योपादानं ताल्वादिसहकारिव्यतिरिक्तं दृष्टमिति चेत् , शब्दादिपुद्गलद्रव्यमिति मस्तथा हि शब्दादिः पुद्गलद्रव्योपादान एव वाहेयन्द्रियप्रत्यक्षत्वात् घटवत् । सामान्येन व्यभिचार इति चेत् , न, तस्यापि मूर्त्तद्रव्याधारस्य सदृशपरिणामलक्षणस्य वाहेयन्द्रियग्राहयस्य पुद्गलद्रव्योपादानत्वसिद्धेः । तथा सति सामान्यस्यानित्यत्वप्रसंगः इति चेत् , कथंचिदिष्टवाददोष इति सर्वथा नित्यस्य सामान्यस्य स्वप्रत्ययहेतुत्वनिरोध त् । द्रव्येण संग्रहनयविषयेण सामान्येनानेकांत इति चेत् , न तस्याप्यतीन्द्रियस्य वाह्येन्द्रियाप्रत्यक्षत्वात्तेन व्यभिच राभाव त् । यत्र वाहयेन्द्रिग्राहय पुद्रलस्कंधद्रव्यं व्यवहारनयसिद्धं तत्सूक्ष्मपुद्गलोपादनमेवेति कथं तेनानेकांत इति च । ततो नानुवादानं शब्दादिकस्ति यतस्तद्वत्सहकारिमात्राच्चैतन्यमनुपादानमुत्पद्यते इति प्रपद्येमहि । न चोपादानसहकारिपक्षद्वयव्यतिरेकेण किंचित्कारणमस्ति येन भूतचतुष्टयं चैतन्यस्य जनकमुररीक्रियते । ततः भारत एव चैतन्यस्य सिद्धिरस्तु पृथिव्यादिभूतविशेषवदिति तत्त्वान्तरसिद्धिस्तामपन्हवानामतावकानां दर्शनमोहोदयाकुलितचेतसां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org