________________
टोकासहित। पुद्गलद्रव्यस्य तैलरूपतां परित्यज्य कजलरूपतापासादयतः प्रदीपसहकारिविशेषवशाद्रूपादिनान्वितस्य प्रतीतिसिद्धस्यान्यथा वक्तुमशक्तेः, त्यक्तात्यक्तात्मरूपस्य पूर्वापूर्वेण वर्तमानस्य कालत्रयेऽपि विषयस्य द्रव्यम्योपादानत्वसिद्धेः। तदुक्तम्...
स्यक्तात्यक्तात्मरूपं यत्पूर्वापूर्वण वर्त्तते।।
कालत्रयेऽपि तद्रव्यमुपादानमिति स्मृतम् ।। न चैवं भूतसमुदाय: पूर्वमचेतनाकारं परित्यज्य चेतनाकारं गृह्णन धारणेरेणद्रवोष्णतालक्षणेन भूतस्वभावेनान्विता - संलक्ष्यते चैतन्यस्य धारणादिस्वभावरहितस्य संवेदनात् । न चात्यंत विजातीयं कार्य कुणः कश्चिदर्थः प्रतीयते पारदादिः पारदीयं कुर्वन्नपि नात्यंतविजातीयं कुरुते रूपादित्वेन सजातीयत्वात्, तर्हि चैतन्यमपि नात्यंतविजातीयं भूतसमुहायः कुरुते । तस्य सत्त्वार्थक्रियाकारित्वादिभिधः सजातीयस्वादिति चेत्, किमिदानी जलानलादीनां परस्परमुपादाजोपादेयभावो न भवेत् तत एव तेषां तत्त्वान्तरत्वात् । धारणाधमाधारणपरस्परविलक्षणत्वान्नोपादानोपादेयभाव इति चेत. किमेवंभूतचैतन्ययोगसाधारणलक्षणयोः परस्परविलक्षणयोरुपादानोपादेयभावोऽभ्यनुज्ञायते । धारणादिलक्षणं हि भूतचतुष्टयमुपलभ्यते न चैतन्यं तदपि ज्ञानदर्शनोपयोगलक्षणमुपलक्ष्यते न भूतचतुष्टयमिति न परस्पर विलक्षणलक्षणत्वं भूतचैतन्ययोरसिद्धं ततो नोपादानोपादेयभावो युक्तः। साधारणसत्त्वादिधर्मसाधर्म्यमात्रात्तयोरुपादानोपादेयत्वेऽतिमसं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org