________________
युक्त्यनुशासनं । पक्षदूषणत्वात्तत्सिद्धिरेवेति चायुक्तं यस्माद्वाच्यं यथार्थ न च दूषणं तत् यद् दृषणं परपने स्वयमुच्यते क्षणिकैकांतवादिना तत्र च यथार्थ वाच्यं तच्च न सम्यग्दुषणं वक्तुं शक्यमित्यर्थः । न नित्यं वस्तु सदनर्थक्रियाकारित्वात् क्रमयोगपद्यरहितत्वात् खपुष्पवदिति दूषणस्यायथार्थवाददुषणाभासत्त्रसिद्धेः परपअवत्स्वपतेऽपि भावान्न तत्प्रत्यनयोः पक्षयोः कचिद्विशेषोऽस्ति । ताभ्यां हि सर्वथैकांताभ्यामनेकान्तो निवर्तते विरोधाजानिवृत्तौ तु क्रमाक्रमौ निवर्तेते तयोस्तेन व्याप्तत्वात् । एकस्थानेकदेशकालव्यापिनो देशक्रमकालक्रमदर्शनात् । तथैकस्यानेकशक्त्यात्मकस्य नानाकार्यकरणे योगपद्यसिद्धेः। क्रमाक्रमयोश्च निवृत्तौ ततोऽर्थक्रियाया निवृत्तिस्तस्यास्ताभ्यां व्यातत्वात् क्रमाक्रमाभ्यां विना कचिदर्थक्रियानुपलब्धेस्तवित्तौ च वस्तुतत्वं न व्यवतिष्ठते तस्यार्थक्रियया व्याप्तस्वात् । न च स्वपक्षं परपक्षवत् निराकुदृषणं यथार्थ भवितुमर्हति न सर्वथाऽध्यसत्तत्त्वं तत एव नोभयमनुभयं चार्थक्रियाविरोधात् ।
किं तर्हि सकलमवाच्यमेवेत्येकान्तवादेऽपि दूषणमावैदयन्ति ।
उपेयतत्त्वानभिलाप्यताव
दुपायतत्त्वानभिलाप्यता स्यात् ।
१ प्रमाणत्वात् इति पाठान्तरं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org