________________
टोकासहितं। अशेषतत्त्वानभिलाप्यतायां
द्विषां भवद्युक्त्यभिलाप्यतायाः॥२८॥ टीका-भवतो वीरस्य युक्तिया॑यः स्याद्वादनीतिस्तस्या अभिलाप्यता कथंचित्सदेवाशेषं तत्वं स्वरूपादिचतुष्टयात्कथंचिदसदेव विपर्यासादित्यादिवचनविषयता तस्या द्विषां शत्रूणामशेषस्यापि तत्त्वम्यानभिलाप्यतायामभिप्रेतायां किं. स्यादुपायतत्वस्यानभिलाप्यता स्यादुपेयतावस्येवाविशेषात् । ततश्च यथोपेयं तत्त्वं निःश्रेयसं सर्वथाभिलपितुमशक्यं तथोपायतत्वमपि, तत्प्राप्तेः कारकं ज्ञायकं चेति सर्वथाऽप्यनभिलाव्यं तचमित्यपि नाभिलपितुं शक्येत प्रतिज्ञातविरोधादित्यभिप्रायमावि:कुर्वन्ति स्वामिनः
अवाच्यमित्यत्र च वाच्यभावा
दवाच्यमेवेत्ययथाप्रतिज्ञम् । स्वरूपतश्चेत्पररूपवाचि
स्वरूपवाचीति वचो विरुद्धम् ॥२९॥ टीका-सर्वथाऽप्यशेषं तत्त्वमवाच्यं स्यात्स्वरूपतो वा पररूपतो वा गत्यंतराभावात् । प्रथमपक्षे तावदवाच्यमयथाप्रतिज्ञ प्रसज्येत इति क्रियाध्याहारः। कुत एतत् अवाच्यमित्यत्र वाच्यभावादवाच्यमित्यस्यैव वाच्यत्वादित्यर्थः । सप्तभ्याः षष्ठयर्थत्वाचशब्दस्यैव शब्दार्थत्वात् । स्वरूपेणावाच्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org