________________
टोकासहितं ।
9
रुपायात्कारकरूपाद्गतिः प्रतिपत्तिः स्यान्नान्यथा ज्ञायकरूपाच्चोपायाद्वतिः प्रतिपत्तिः स्यान्नान्यथेति निश्वेतव्यं । स च प्रतिपत्त्युपायः परार्थस्तावद्वचनं स्वार्थश्च प्रत्यक्षमनुमानं वा, तत्र यदा वचनं बंधमोक्षयोर्गतेरुपायस्तदा वचनीयौ तौ यदा पुनरनुमानमुपायस्तदा गम्यौ तावनुमेयौ यदा तु प्रत्यसमुपायस्तदा प्रत्यक्षेण गम्यौ परिच्छेद्यौ तौ संबंधिनौ पर - स्पराविनाभूतौ बंधेन विना मोक्षस्यानुपपत्तेर्वन्धपूर्वकत्वान्मोक्षस्य, मोक्षेण च विना न बंधः संभवति प्रागत्रद्धस्य पश्चादन्धोपपत्तेरन्यथा शाश्वतिकबंधप्रसक्तेः । अनादिबंध संतानापेक्षया बन्धपूर्वकत्वेऽपि बंधस्य बंधविशेषापेक्षया तस्याबंधपूर्वकत्वसिद्धेः प्रागबद्धस्यैव देशतो मोक्षरूपत्वान्मोक्षाविनाभावी बंध इत्यविनाभाविबंधन संबंधिनौ तौ बंधमोक्षौ चेदिति परमतस्य सूचक शब्दस्त न्नेत्यनेन प्रतिषिध्यते नैवं सत्स्वभाव तत्त्वं दृष्टं सर्वथा क्षणिकमक्षणिकं वा विरोधित्वात्तद्विरोधि दृष्टं प्रत्यक्षat africe नित्यानित्यात्मनो जात्यंतरस्य सर्वथा क्षणिकाक्षणिकांत विरोधिनो निर्वाधं विनिश्वयात् सम्यगनुमानतोऽपि तस्यैवानुमेयत्वात् । सर्वमनेकांतात्मकं वस्तु वस्तुत्वान्यथाऽनुपपत्तेरिति स्वभावविरुद्धोपलंभः परमततत्त्वं विरुणद्धि । नास्ति परमते सत्तत्वं सर्वथा क्षणिकमक्षणिकं वा ततो जात्यंतरस्यानेकांतस्य दर्शनादिति स्वभावानुपलभो वा तद्वितिषेध इति नास्ति सर्वथैकांतात्मकं सत्तत्वं प्रत्यक्षाद्यनुपलधेरिति माभूत्स्वयं प्रत्यक्षादिप्रमाणतः सत्तत्त्वस्य दर्शनं । पर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org