________________
५८
युक्त्यनुशासनं। कथंचिदभेदो गुणकर्मणोरशक्यविवेचनत्वात्सिद्धस्तथा सामान्यविशेषसमवायानां प्रागभावादीनां च विशेषाभावात्तद्वसमागाप्रमेयमंशययोजनदृष्टांतसिद्धांतावयवतर्कनिर्णयवादजल्पवितंडाहेत्वाभासछलजातिनिग्रहस्थानानां च द्रव्यपर्यायविशेषाणां द्रव्यात्क्ष द्भेदस्य संप्रत्ययानासत्त्वं पर्यायान्तरवत् । न हि यत एव 'पर्याया द्रव्यस्य' इति नियमो व्यवतिछने. विपर्ययानध्यवसाययोरपि प्रमाणादिषोडशपदार्थेभ्योऽर्थान्तम्भूनयोः प्रतीतेः । पदार्थसंख्यानियमानभ्युपगमे वानेकान्तवादानतिक्रम एव सिद्धः । यथा च भवतः परेषां वैशेपिकनैयायिकानां सकलपदार्थभेदशून्यं तत्वमसदेव स्यात्खपुष्पवत्तथा सांख्यादीनामपि व्यतीतसामान्य विशेषत्वाविशेषस्वात् । ततः सर्वेषामपि सर्वथै कांतवादिनामसदेव तत्वमिति संक्षेपतः प्रतिपत्तव्यम् । सांप्रतं परमतमाशंक्य पुनरपि निगकर्तुमारभते
अतत्स्वभावेऽप्यनयोरुपायाद्
गतिर्भवेत्तौ वचनीयगम्यौ। सम्बन्धिनौ चेन विरोधि दृष्टं
वाच्यं यथार्थ न च दूषणं तत् ॥२७॥ टीका- तदभावमात्रं स्वभावोऽस्येति तत्स्वभावशून्यस्वभाव तवं न तत्स्वभावमतत्स्वभावं अशून्यस्वभावं सरस्वभावमित्यर्थः । तस्मिन्नतत्स्वभावेऽपि तत्त्वेऽभ्युपगम्यमानेऽनयोर्बन्धमोक्षयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org