________________
४.
युक्त्यनुशासनं। न हि तत्र जाग्रचित्तस्य नाशकाल एव प्रबुद्धचित्तस्योदयोऽस्ति मुहूर्त्तादिकालेनानेकक्षणेन व्यवधानात्तथा च जाग्रच्चि प्रबुद्धचित्तस्य हेतुर्न स्यात् तन्नाशस्यैव प्रबुद्धचिचोदयत्वाभावात् जाग्रचित्तप्रबुद्धचित्तनाशोदययोरेकक्षणतापायात् । अथवा संताने प्रदीपादेनिरन्वयनाशिनि नाशोदययोरेकक्षणताया असंभवात् भिन्नक्षणतेति व्याख्येयं ततोऽसत्येव हेतौ कालान्तरेण स्वयमुत्पद्यमानोऽर्थः प्रलय इवाकस्मिकः स्यात् । तत्र चेदं दृषणमावेदयन्ति मूरयःकृतप्रणाशाकृतकर्मभोगौ
स्यातामसंचेतितकर्म च स्यात् । आकस्मिकेऽर्थे प्रलयस्वभावो
मार्गो न युक्तो बधकश्च न स्यात् ॥१४॥
टीका-यथा कारणमन्तरेणैव भवन्प्रलयः स्यादाकस्मिक सौगतस्य तथा कार्योदयोऽपीति प्रलयस्वभावोऽर्थः प्रमाणबलादायातः परिहर्तुमशक्यत्वाचास्मिंश्वाकस्मिकेऽर्थे प्रलयस्त्रभावे युक्त्या पूर्वचितेन कृतं कर्म शुभमशुभं वा तस्य तत्फलभोगाभावात् कृतप्रणाशः स्यात्तदुत्तरभाविना च चित्तेनाकृतस्यैव कर्मणो भोगः स्यादेकस्य कर्मणां कर्तुस्तफलभोक्तुश्चावस्थितस्याभावादिति कृतपणाशाकृतकर्मभोगौ स्यातां । तथा येन चिचेन संचेतितं कर्म तस्य निरन्वयमलयात येना
१ तदन्यानु' इति पुस्तकांतरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org