________________
टोकासहितं । संचेतितमुत्तरचिनेन तस्यैव कर्म भवेदित्यतोऽसंचेतितं च कर्म स्यात् । तथा च सकलास्वनिरोधलक्षणमोक्षस्य वित्तसंततिनाशरूपस्य वा शांतनिर्वाणस्य मार्गों हेतु रात्म्यभावनालक्षणो न युक्तः स्यान्नाशकस्य कस्यचिद्विरोधात् । तथा कस्यचित्माणिनः कश्चिद्वधकोऽपि न स्यात्तद्वधकस्य प्रलयस्वभावस्याकस्मिकत्वात् ।
किञ्चान्यत्स्यादित्याचार्या व्याचक्षतेन बन्धमोक्षौ क्षणिकैकसंस्थौ
न संवृतिः साऽपि मृषास्वभावा । मुख्याहते गौणविधिर्न दृष्टो
विभ्रान्तदृष्टिस्तव दृष्टितोऽन्या॥१५॥ टीका-क्षणिकमेकं यच्चि तत्संस्थौ बंधमोक्षौ न स्यातां। यस्य चित्तस्य बंधस्तस्य निरन्वयप्रणाशात्तदुत्तरचित्तम्या. बद्धस्यैव मोक्षप्रसंग त् । यस्यैव बन्धस्तस्यैव मोक्ष इत्येकचित्तसंस्थौ बंधमोक्षौ संवृत्या तदेकत्वारोपविकल्पलक्षणाया स्यातामिति चेत्तर्हि सापि संवृतिभ्रषास्वभावा स्यात् गौगाविधिर्वा ? तत्र तारम संवृतिः मृषास्वभावा बंधमोक्षयोः क्षणिकैकचित्तसंस्थयोः मृषात्वप्रसक्तेः । गौणविधिरेव संवृतिरिति चेत्, तर्हि मुख्यौ बंधमोक्षौ कचिच्चिचे संतिष्ठमानौ प्रतिपत्तव्यौ यतो मुख्याहते गौण विधिन दृष्टः पुरुषसिंहवत् । न हि मुख्य सिंहाहते गौणस्य पुरुष सिंहविधेदर्शनमस्ति ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org