________________
टीकासहितं। न सन्नसन्वा विभवादकस्मात् । नाशोदयैकक्षणता च दृष्टा
संतानभिन्नक्षणयोरभावात् ॥१३॥ टीका-अभ्युपगम्येदमुक्तं-कार्यचित्तं सद्पमसद्रूपं वा न हेत्वपेक्षमिति परमार्थस्तु क्षणिकात्मवादे हेतु वाऽस्ति । स हि सन्वा हेतुः स्यादसन्वा ? न तावत्सन्नेव पूर्वचित्तक्षण उत्तरचित्तक्षणस्य हेतुर्भवति विभवाद्विभवप्रसंगादित्यर्थः । सत्येकक्षणे चित्ते चित्तान्तरस्योत्पत्तौ तत्कार्यस्यापि तदैवोत्पत्तिरिति सकलचित्तचैत्तक्षणानामेकक्षणवर्तित्वोत्पत्तौ युगपत्सकलजगद्व्यापिचित्ताकारसिद्धविभुत्वमेव क्षणिकं कथमिव निवार्येत । पूर्व पश्चाच चित्तशून्यं जगदापनीपद्येत तथा च संताननिर्वाणलक्षणो मोक्षो विभवः सर्वस्यानुपायसिद्धः स्यात् । अथैतदोषभयादसन्नेव हेतुरति ब्रूयात् तदाप्यकस्माकारणमंतरेण कार्योत्पत्तिप्रसंगस्ततोऽसन्नपि न हेतुः संभवति । __ स्यान्मतं-यस्य नाश एव कार्योत्प दः स तद्धेतु शोदययोरेकक्षणतोपपत्तेः, कारणनाशानंतरं कार्यस्योदयस्यानिष्टेरकस्मात्कार्योदयप्रसंगादिति चेत् , तदप्यसत् । यतो ना. शोदयैकक्षणतायाः संतानभिन्नक्षणयोरभावात्, भिन्नौ च तौ क्षणौ च भिन्नक्षणौ कालव्यवहितौ संतानस्य भिन्नक्षगौ संतानभिन्नक्षणौ तयोः सुषुप्तसताने जाग्रचित्तप्रबुद्धचितक्षणयोरभावान्नाशोदयैकक्षणताया इति विभक्तिपरिणामः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org