________________
युक्त्यनुशासनं। निर्हेतुकत्वं प्रथितः स्वभाव इति चेत्, तर्हि ज्ञप्त्युत्पत्तिलक्षणायाः क्रियायाः प्रतीयमानाया विभ्रमः स्यात्स्वभावत एव भावानां ज्ञानादाविर्भावाचान्यथा निर्हेतुकत्वासिद्धेः । क्रियाविभ्रमे च कारकस्य सकलस्य प्रतिभासमानस्य विभ्रमो भवेत्, क्रियाविशिष्टस्य द्रव्यस्य कारकत्वप्रसिद्धः क्रियायाः कारकानुपपत्तेः । न च क्रियाकारकविभ्रमः स्वभाववादिमि. रभ्युपगंतुं युक्तो वादान्तरप्रसंगात् । अस्तु सर्वविभ्रमैकान्तो चादान्तरमिति चेत्, तर्हि विभ्रमे किमविभ्रमो विभ्रमो वा स्यात् ? यद्यविभ्रमस्तदा नविभ्रमैकांतः सिध्येत् तत्रापि वि. भ्रमे सर्वत्राभ्रान्तिसिद्धिः सर्वत्र विभ्रमे विभ्रमस्य सर्ववास्तवस्वरूपत्वात् ततो वादान्तरं किं तदसूयतां ते तव भगवतःस्याद्वादभानोः असूयतां विद्विषां विभ्रमैकान्तस्यापि वादान्तरस्यासंभवान्न किंचिद्वादान्तरमस्तीति वाक्यार्थः । अथ नाहेतुत्वं प्रथितः स्वभावोऽभ्युपगम्यते किं त्वाबालसिद्धर्विविधार्थसिद्धिः प्रथितः स्वभाव इति निगद्यते तर्हि सैवाबालसिद्धेनिर्णीतिनित्यायैकांतवादाश्रयणे न संभवति यतः सर्वेषामर्थानां कार्याग कारणानां वा सिद्धिः स्यात् । न च प्रत्यक्षादिप्रगणतो विविधार्थसिद्धेग्संभवे परेषां पर्यनुयोगे स्वभाववादावलंबन युक्तमतिप्रसंगात्। प्रत्यक्षादिप्रमाणसामर्थ्यात् वि. विधार्थसिद्धिः स्वभाव इति वचने कथमिव स्वभावैकांतवादः सिध्येत् । स्वभावस्य स्वभावत एव व्यवस्थितेस्तस्य प्रत्यक्षादिपमाणसामर्थ्यात् व्यवस्थापितत्वात् , वादान्तरं तु किं तत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org